जम्मू-श्रीनगर राष्ट्रिय राजमार्गो यातायाताय उद्घटितः
जम्मूः, 4 अक्टूबरमासः (हि.स.)। जम्मू–श्रीनगर राष्ट्रीयमार्गः अद्य शनिवासरे यातायातार्थं उद्घाटितः अस्ति। तथापि लघु–महान् वाहनानां केवलं एकदिशं गमनमेव अनुमोदितम् अस्ति। सूचनानुसारं अद्य लघुवाहनानि केवलं श्रीनगरतः जम्मूतः दिशि प्रेष्यन्ते। लघुवाहनाना
93ad9798e77fe028c8324ebd6c5858ae_927737075.jpeg


जम्मूः, 4 अक्टूबरमासः (हि.स.)। जम्मू–श्रीनगर राष्ट्रीयमार्गः अद्य शनिवासरे यातायातार्थं उद्घाटितः अस्ति। तथापि लघु–महान् वाहनानां केवलं एकदिशं गमनमेव अनुमोदितम् अस्ति।

सूचनानुसारं अद्य लघुवाहनानि केवलं श्रीनगरतः जम्मूतः दिशि प्रेष्यन्ते। लघुवाहनानां गमनार्थं प्रातः ७ः०० तः १०ः०० वादनपर्यन्तं अनुमतिः प्रदत्ता अस्ति, यदा तु महान् वाहनानां गमनं लघुवाहनानां प्रस्थानानन्तरं जम्मूतः श्रीनगरं प्रति भविष्यति।

एष निर्णयः सावधानतावशात् स्वीकृतः, यतः मार्गः अद्यापि कतिपयस्थलेषु क्षतिग्रस्तः अस्ति। राजमार्गस्य पूर्णपुनःस्थापनं कर्तुं किञ्चन दिनानि अपेक्षितानि इति प्रशासनस्य अभिमतम्।

एतस्मिन्नेव समये एस्.एस्.जी. मार्गः च मुग़लमार्गः च वाहनयात्रायै उद्घाटितौ स्तः। मुग़लमार्गे लघुवाहनानां उभयदिशं गमनम् अनुमतम् अस्ति, यदा तु महान् वाहनानां गमनं अद्य शोपियांतः पुंछं प्रति क्रियते।

हिन्दुस्थान समाचार