छत्तीसगढ़स्य सर्वकारीविद्यालयेषु विशेषशैक्षिकपदेषु भविष्यति साक्षान्नियुक्तिः , आवेदनं सप्तमअक्टूबरतः
रायपुरम् 5 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्ये बेरोजगारयुवकानां कृते राज्यसर्वकारेण विशेषशिक्षकपदानि (Special Educator) इत्येषां नियुक्त्यर्थं अधिसूचना प्रकाशिताऽस्ति। एषा नियुक्तिः मेरिट् (योग्यता–सूची) आधारिता भविष्यति, यस्यां प्राथमिक, उच्चप्राथम
जारी आदेश की सूची


रायपुरम् 5 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्ये बेरोजगारयुवकानां कृते राज्यसर्वकारेण विशेषशिक्षकपदानि (Special Educator) इत्येषां नियुक्त्यर्थं अधिसूचना प्रकाशिताऽस्ति।

एषा नियुक्तिः मेरिट् (योग्यता–सूची) आधारिता भविष्यति, यस्यां प्राथमिक, उच्चप्राथमिक, माध्यमिकस्तरस्थानि रिक्तपदानि अन्तर्भवन्ति।

छत्तीसगढसरकारस्य विद्यालयशिक्षाविभागेन एषः आदेशः ३ अक्टूबर २०२५ तमे दिनाङ्के निर्गतः,

यस्मिन् विषये जनसंपर्कविभागेन शनिवासरस्य सायंप्रायं जनानां सूचना प्रदत्ता।

विशेषशिक्षकाणां रिक्तपदानि पूरयितुं सीधाभर्तीप्रक्रिया (प्रत्यक्षनियुक्तिः) कृते

७ अक्टूबरात् १३ अक्टूबरपर्यन्तं आवेदनपत्राणि स्वीकृतानि भविष्यन्ति।

अस्मिन् विषये शैक्षणिकयोग्यता, आयुपरिसीमा, आरक्षणव्यवस्था, चयनप्रक्रिया, आवेदनपत्ररूपरेखा च

एतेषां समग्रविवराणि विभागस्य जालपुटे (वेबसाइटे)

👉 http://eduportal.cg.nic.in इत्यत्र उपलब्धानि सन्ति।

अभ्यर्थिभिः आवेदनपत्राणि छत्तीसगढराज्यस्य सर्वेषां जिलाशिक्षाधिकारीकार्यालयेषु (DEO) समर्पणीयानि।

आवेदनप्रस्तुतिकरणस्य प्रारम्भदिनाङ्कः ७ अक्टूबर २०२५,

अन्तिमदिनाङ्कः १३ अक्टूबर २०२५ इति निश्चितः अस्ति।

आवेदनपत्राणि केवलं पंजीकृतडाकेन अथवा व्यक्तिगतरीत्या एव स्वीकृतानि भविष्यन्ति।

इच्छुकाः अभ्यर्थिनः निवेद्यन्ते यत् ते निर्धारितसमयसीमायां नियमपूर्वकं आवेदनं प्रस्तुवन्तु।

इति छत्तीसगढराज्ये विशेषशिक्षकपदाभ्यर्थनस्य अधिसूचना–वृत्तान्तः।

हिन्दुस्थान समाचार