Enter your Email Address to subscribe to our newsletters
भोपालम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहन यादवः अद्य रविवासरे असमराज्यस्य गुवाहाटीनगरे पूर्वोत्तरराज्यानां निवेशकैर् सह भूटानदेशस्य प्रतिनिधिभिः च एकैकं संवादं करिष्यति। अस्य अधिवेशनस्य संबोधनं रॉयल् भूटान् काउन्सलेट् इत्यस्य काउन्सिल् जनरल् जिग्मे थिनायल् नामग्याल् अपि करिष्यति। गुवाहाटीनगरस्थे रेडिसन् ब्लू इत्यस्मिन् होटले आयोजिते अन्तरक्रियासत्रे मध्यप्रदेशे निवेशकानाम् कृते उपलब्धानि प्रोत्साहनानि, दृढम् अधिसंरचनम्, उद्योगहितैषिणी नीतयः, सुविधाश्च विषये चर्चा भविष्यति। मुख्यमन्त्री डॉ० यादवः मध्यप्रदेशे निवेशयोग्यानां प्रमुखक्षेत्राणां उद्योगानुकूलनीतिनां च विस्तृतां जानकारीं दास्यति।
जनसम्पर्काधिकारी अशोकः मनवानी नामकः उक्तवान् यत् मुख्यमन्त्रिणः डॉ० यादवस्य दृढसंकल्पः राज्यस्य च सुदृढनीतयः निवेशकान् विश्वसनीयतां ददाति यत् तेषां व्यवसायाय आवश्यकाः सर्वे संसाधनाः अवसराश्च राज्ये सन्ति। एषः अवसरः पूर्वोत्तरराज्यानां च मध्यप्रदेशस्य च उद्योगानां मध्ये साझासंभावनानां नूतनं मार्गं उद्घाटयिष्यति। तेन उक्तं यत् मध्यप्रदेशस्य केन्द्रीयं भौगोलिकं स्थानम्, विश्वस्तरीयं अधिसंरचनं, बाजारस्य च सुलभः प्रवेशः, एतानि तं निवेशकानां कृते अतीव अनुकूलं अद्वितीयं केन्द्रं च कुर्वन्ति।
राज्येन उद्योगानुकूलनीतयः क्लस्टराधारितविकासमॉडेलश्च निर्मितौ, येन निवेशकाः स्वस्य नवउद्योगस्य योजनां शीघ्रं कार्यरूपं नयितुं शक्नुवन्ति। राज्यस्य कृष्याः अन्नप्रसंस्करणस्य च क्षेत्रे निवेशकाः कृषिफलोत्पादनस्य प्रसंस्करणक्षमतायाश्च लाभं प्राप्नुवन्ति। वस्त्रपरिधानक्षेत्रं राज्यस्य पारम्परिकं आधुनिकं च सामर्थ्यं प्रदर्शयति, येन निर्यातस्य रोजगारस्य च वृद्धिः सम्भवति।
औषधनिर्माणस्वास्थ्यसंरक्षणक्षेत्रे मध्यप्रदेशस्य शक्तिः निवेशकान् कच्चामालस्य अनुसंधानस्य उत्पादनस्य च अवसरैः समृद्धान् करोति। सिमेण्ट्, खनिज, अभियान्त्रिकी, पेट्रोकेमिकल्, रसायन, पर्यटनं स्वास्थ्यं नवकरणीयऊर्जा, ऊर्जासाधनानि, प्लास्टिक्-पॉलीमर् इत्येते क्षेत्राः राज्यं निवेशाय बहुविधं विकल्पं प्रददाति। मुख्यमन्त्रिणः डॉ० यादवस्य पहलया एतेषां क्षेत्रेषु निवेशः केवलं व्यवसायं न, अपि तु आर्थिकविकासस्य स्थाय्यवसरस्य च याचना भवति।जनसम्पर्काधिकारी बबीता मिश्रा नाम्नी उक्तवती यत् गुवाहाटीस्थे ‘इन्वेस्टमेण्ट् अपॉर्च्युनिटीज् इन मध्यप्रदेश’ इत्यस्मिन् सत्रे पूर्वोत्तरभारतस्य निवेशकान् राज्ये औद्योगिकसंधीनां साझायाः च नवीनमार्गान् प्रति प्रेरयिष्यति। अस्य सत्रस्य उद्देश्यं अस्ति यत् निवेशकाः मध्यप्रदेशे कृषि-खाद्यप्रसंस्करण, वस्त्र-परिधान, औषध-स्वास्थ्यसंरक्षण, सिमेण्ट्-खनिज, अभियान्त्रिकी, पेट्रोकेमिकल्-रसायन, पर्यटन-स्वास्थ्य, नवकरणीयऊर्जा, प्लास्टिक्-पॉलीमर् इत्यादिषु प्रमुखक्षेत्रेषु निवेशसंधीनां विषयं अवगच्छेयुः।गुवाहाटीनगरं औषधनिर्माणसिमेण्ट्-उद्योगयोः प्रमुखं केन्द्रं भवति। दिब्रूगढ्, तिनसुकिया, जोरहाट्, शिवसागर् इत्येते औद्योगिकनगरेभ्यः उद्योगप्रतिनिधयः अपि सत्रे उपस्थिताः भविष्यन्ति निवेशसंधिषु चर्चां च करिष्यन्ति। सत्रे फिक्की असमस्य अध्यक्षः धानुका समूहस्य व्यवस्थापकीयनिदेशकः डॉ० घनश्यामदासः धनुका, सहाध्यक्षः बीएमजी इन्फॉर्मेटिक्स् प्रा० लि० इत्यस्य निदेशकः जयदीपः गुप्ता च भागं गृह्णीयाताम्।
हिन्दुस्थान समाचार