मुख्यमंत्रिणा डॉ. यादवेन महती वीरांगना रानी दुर्गावती जयंत्यां प्रणता
भाेपालम्, 5 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहन यादवः अद्य (रविवासरे) महान् वीराङ्गना रानीदुर्गावतीं तस्याः जयंत्यां नमनं कृतवान्। मुख्यमन्त्री डॉ० यादवः ताम् राष्ट्रप्रेमस्य, नारीशक्तिसशक्तीकरणस्य, अदम्यसाहसस्य च प्रतीकत्वेन वर्ण
मुख्यमंत्री डॉ. यादव


भाेपालम्, 5 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहन यादवः अद्य (रविवासरे) महान् वीराङ्गना रानीदुर्गावतीं तस्याः जयंत्यां नमनं कृतवान्। मुख्यमन्त्री डॉ० यादवः ताम् राष्ट्रप्रेमस्य, नारीशक्तिसशक्तीकरणस्य, अदम्यसाहसस्य च प्रतीकत्वेन वर्णितवान्।

मुख्यमन्त्रिणा डॉ० यादवेन सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् पोस्ट् कृतं —

स्वीयया वीर्येण, दृढतया, साहसेन च अमरां शौर्यगाथां लिखित्वा नारीशक्तेः अद्वितीया प्रतिमूर्तिः या, सा महान् वीराङ्गना रानीदुर्गावतीजयंती निमित्तं कोटिकोटिनमस्काराः। मातृभूमेः स्वाभिमानस्य च रक्षणार्थं मुगलेभ्यः विरुद्धं तस्याः आरपारयुद्धं बलिदानं च सर्वदा प्रेरणादायकं भविष्यति।

---------------

हिन्दुस्थान समाचार