Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 5 अक्टूबरमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमंत्री श्रीमती रेखा गुप्ता रविवासरे नरेला आदर्श-रामलीला-क्रीडांगणे प्रजापति (कुम्हार) महाकुम्भे सम्मिलित्वा समाजजनैः संवादं कृतवती।
एतस्मिन् अवसरे सांसदः योगेन्द्रचांदोलियः,
विधायकः राजकरणखत्री सहितः
प्रजापति-समाजस्य अनेकाः सदस्याः उपस्थिताः।
मुख्यमंत्री उक्तवती यद् अस्माकं शासनं समाजस्य सृजनशक्तिं सशक्तं कर्तुं पूर्णतः प्रतिबद्धम्।
शिक्षा, प्रशिक्षणं, बाजार-संयोगः, आधुनिक-प्रविधेः साहाय्येन प्रतिएकं कुम्हारं, प्रतिएकं कारीगरं आत्मनिर्भरं कर्तुम् अस्माकं संकल्पः।
तेन अपि उक्तं प्रधानमन्त्री श्री नरेंद्र मोदी-स्य ‘स्वदेशी’ च ‘वोकल फॉर लोकल’ च आवाहनात् प्रेरितः,अस्माभिः दिल्लीस्य प्रतिव्यापारे, प्रतिगृहे स्थानिय हस्तनिर्मित वस्तूनि प्रचार्यन्ते।
एतत् कार्यं मृत्तिकारकला-कौशलस्य सम्मानं दातुम्, भारतीयकौशलं भारतस्य
चिह्नं स्थापयितुम्।
---------------
हिन्दुस्थान समाचार