Enter your Email Address to subscribe to our newsletters
- प्रथम दिने अभिलिप्सा पांडा द्वितीये दिन मैथिली ठाकुरः व लखवीर सिंह लक्खा च करिष्यतो भजनप्रस्तुतिम्
जबलपुरम्, 05 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य जबलपुरजिले मातृनर्मदायाः गोदाम् अवस्थिते संगमरमरशोभायुक्ते प्रसिद्धे पर्यटनस्थले भेडाघाटे अद्य रविवासरे सायं सप्तवादने नर्मदामहोत्सवस्य भव्यः शुभारम्भः भविष्यति।
शरद्पूर्णिमायाः अवसरे सञ्ज्ञायाम् अस्मिन् द्विदिवसीये महोत्सवे धुआंधारजलप्रपातस्य समीपे मुक्ताकाशमञ्चे भक्तिभावपूर्णा भजनसरिता वहिष्यति। तस्मिन्नेव वीराङ्गना रानीदुर्गावत्याः शौर्यपराक्रमयोः आधारेण नृत्यनाटिका प्रस्तुत्यिष्यते। स्थानीयकलाकारैः भरतनाट्यम् तथा शास्त्रीयगायनम् अपि प्रदर्श्यते। राजस्थानीयः लोकनृत्यः — कालबेलिया, चरी, घूमर इत्यादयः अपि दर्शकैः आनन्देन अवलोक्यन्ते।
जबलपुरपुरातत्व-पर्यटन-संस्कृतिपरिषदस्य मुख्यकार्यपालकाधिकारी पीयूषदुबे इत्यनेन उक्तं यत् — एषः नर्मदामहोत्सवः निरन्तरं द्वाविंशतितमे वर्षे सम्पद्यते।
प्रथमदिवसे सांस्कृतिकसन्ध्यायाः मुख्याकर्षणं “हर हर शम्भो” इति ख्याताभजनगायिका पुरीनिवासिनी अभिलिप्सापाण्डा इत्यस्याः प्रस्तुति भविष्यति।द्वितीयदिवसे (६ अक्टूबर) मधुबनीनिवासिनी मैथिलीठाकुर तथा पंजाबप्रदेशस्य लखवीरसिंहलक्खा इत्येतयोः मधुरसुरिलस्वरैः भजनगायनं भक्तिरसप्रवाहं वक्ष्यति।
प्रथमदिवसस्य कार्यक्रमाः (५ अक्टूबर)सांस्कृतिककार्यक्रमाः सायं सप्तवादनात् मातृनर्मदायाः पूजापूर्वकं आरभ्यन्ते।मुख्यअतिथिः — प्रदेशस्य शिक्षामन्त्री उदयप्रतापसिंहः।अध्यक्षता — राज्यसभासदस्या सुमित्राबाल्मिकिः करिष्यति।विशिष्टातिथयः — राज्यसभासदस्यः विवेककृष्णतन्खा, विधायकाः अजयविश्नोई, नीरजसिंह, लखनघनघोरिया, सुशीलतिवारी इन्दु, सन्तोषवरकडे, जिलापरिषदाध्यक्षाशा गोंटिया च।
सायं ७.३० वादने कट्निनिवासी युवराजसिंहस्य शास्त्रीयगायनम् आरभ्यते।सायं ७.४५ वादने जबलपुरनिवासिन्या कामनानायिकायाः समूहेन भरतनाट्यप्रस्तुतिः भविष्यति।सायं ८.०० वादने राजस्थानीयेन जवाहरनाथेन समूहसहितं कालबेलियनृत्यं प्रदर्श्यते।सायं ८.१५ वादने अभिलिप्सापाण्डया भजनगायनम् आरभ्यते।
---
द्वितीयदिवसस्य कार्यक्रमाः (६ अक्टूबर)
सायं सप्तवादने नर्मदापूजनं, अतिथिस्वागतं दीपप्रज्वलनं च कृत्वा सांस्कृतिककार्यक्रमः आरभ्यते।मुख्यअतिथिः — प्रदेशस्य लोकनिर्माणमन्त्री राकेशसिंहः।अध्यक्षता — संस्कृतिपर्यटनराज्यमन्त्री (स्वतन्त्रप्रभार) धर्मेन्द्रसिंहः लोधिः करिष्यति।विशिष्टातिथयः — सांसदः आशीषदुबे, विधायकौ नीरजसिंहः डॉ॰ अभिलाषपाण्डे च, महापौरः जगतबहादुरसिंहअन्नुः, भेडाघाटनगरपरिषदाध्यक्षः चतुरसिंहविशिष्टः च।
सायं ७.३० वादने संस्कारभारतीजबलपुरसंस्थायाः कमलेश्यादवेः समूहेन वीराङ्गना रानीदुर्गावत्याः शौर्ये आधारितं नृत्यनाटिकां प्रस्तुत्यिष्यन्ति।सायं ७.४५ वादने राजस्थानीयजवाहरनाथगोष्ठिना चरी तथा घूमरनृत्ययोः प्रस्तुती भविष्यति।सायं ८.०५ वादने मैथिलीठाकुरभजनानि गास्यति, रात्रौ ९ वादने पंजाबनिवासी लखवीरसिंहलक्खा स्वगायनेन भक्तिरसं प्रवहयिष्यति।
अन्याः व्यवस्थाःनर्मदामहोत्सवस्य अवसरे प्रतिवर्षवत् व्यञ्जनमेलनं हस्तशिल्पप्रदर्शनी च आयोज्येते।शरद्पूर्णिमायां धुआंधारजलप्रपातसमीपे मुक्ताकाशमञ्चे द्वयोः दिवसयोः सायं सप्तवादनात् आरभ्यमानेषु सांस्कृतिककार्यक्रमेषु जनानां प्रवेशः निःशुल्कः भविष्यति।
---
हिन्दुस्थान समाचार