Enter your Email Address to subscribe to our newsletters
रायपुरम् 6 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्ये भारतीयजनतापक्षसरकारा पुनरेव स्वकार्यकर्तॄणां जनसामान्यस्य च समस्यासमाधानार्थं कुशाभाऊठाकरे-परिसरे “सहयोगकेन्द्रं” नामकं आयोजनं पुनः प्रारम्भयितुं सज्जा अस्ति। प्रायः एकवर्षपरं एषा पहलः पुनः आरभ्यते। अद्य सोमवासरे (अक्टोबर मासस्य षष्ठे दिने) सहयोगकेन्द्रस्य संचालनं भविष्यति, यस्य उद्घाटनदिवसे प्रदेशराजस्वमन्त्री टंकरामवर्मा उपस्थितः भविष्यति।
एतस्य समाचारस्य पुष्टि छत्तीसगढ-भारतीयजनतापक्षस्य माध्यमसंयोजकेन हेमन्तपाणिग्रिहिणा कृता। उल्लेखनीयम् यत् “सहयोगकेन्द्रस्य” स्थापना गतवर्षे राष्ट्रियसहसंगठनमहामन्त्री शिवप्रकाशस्य निर्देशेन कृता आसीत्, यत् कार्यकर्तॄणां सामान्यजनानां च समस्याः शीघ्रं समाधानं प्राप्नुयुः। मन्त्रीगणः प्रतिदिनम् अत्र उपविश्य जनैः सह संवादं कुर्वन्तः लघुसमस्याः तत्रैव स्थले एव निराकुर्वन्ति स्म।
हिन्दुस्थान समाचार