सुलतानपुरे दुर्गापूजामहोत्सवे संघयात्रायाः शतवर्षोत्सवः विषयीकृतः पण्डालः जनानाम् आकर्षणकेंद्रं जातम्
सुलतानपुरम्, 6 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे ऐतिहासिकदुर्गापूजामहोत्सवस्य उल्लासः दृश्यते। अस्मिन् उत्सवे यत्र नगरस्य अन्तःस्थलेषु शतसङ्ख्यकपूजापण्डालाः विविधप्रकारदीपप्रभाभिः चर्चायाः केन्द्रं भवन्ति, तत्र एव प्रथमवारं राष्
विभाग  प्राचरक श्री प्रकाश


संघ यात्रा


खाटू श्याम


सुलतानपुरम्, 6 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे ऐतिहासिकदुर्गापूजामहोत्सवस्य उल्लासः दृश्यते। अस्मिन् उत्सवे यत्र नगरस्य अन्तःस्थलेषु शतसङ्ख्यकपूजापण्डालाः विविधप्रकारदीपप्रभाभिः चर्चायाः केन्द्रं भवन्ति, तत्र एव प्रथमवारं राष्ट्रीयस्वयंसेवकसंघेन “शून्यात् शतकपर्यन्तं” यात्रारूपेण खाटुश्यामपूजापण्डालः निर्मितः, यः सहस्रशः श्रद्धालूनां आकर्षणकेंद्रं जातः।

नगरस्य मेजरगञ्ज–ठठेरीबाजारनामस्थले बालदुर्गापूजासमितेः द्वारा बालदुर्गायाः पण्डालः सुसज्जितः अस्ति, यः चतुश्चत्वारिंशद्वर्षपर्यन्तं निरन्तरं सज्यते स्म। तस्य समीपे एव राष्ट्रीयस्वयंसेवकसंघस्य द्वारा प्रथमवारं खाटुश्यामबाबायाः पण्डालः प्रतिष्ठापितः अस्ति। अस्य सज्जनादिककार्ये अंकितअग्रहरिनामकः कार्यकर्तारः निरीक्षणं कुर्वन् अस्ति।

अस्मिन् पण्डाले संघस्य वस्त्रैः, शस्त्रैः सह संघस्य वीरगाथानां दशाधिकचित्राणि प्रदर्शितानि सन्ति। तत्र एव 1925 तमे वर्षे संस्थापकतः आरभ्य अद्यतनीयं 2025 तमे वर्षे यावत् सर्वे सरसंघचालकाः तेषां छायाचित्राणि अपि स्थाप्यन्ते।

तत्रैव संघस्य अन्यान्य अनुसांगिकसंघटनानि अपि विस्तारतः दर्शितानि सन्ति। अखण्डभारतस्य मानचित्रं स्थापितम् अस्ति, यत्र देशविभाजनस्य कालक्रमः अपि स्पष्टतया अंकितः अस्ति।

विभागप्रचारकः प्रकाशजी इत्यनेन उक्तम् — “संघस्य साधनायाः शतवर्षाणि पूर्णानि अभवन्। अस्यां शतवार्षिकीयात्रायां संघकार्याणि सम्यक् प्रदर्शितानि सन्ति। जनमानसे संघविषये जागरूकतायै एषः पण्डालः सुसज्जितः। अत्र निकटे एव एल्-ई-डी साधनद्वारा संघकृतकार्याणां प्रदर्शने अपि आयोजनं कृतम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता