Enter your Email Address to subscribe to our newsletters
—मुख्यमंत्री डायरेक्ट सीडेड राइस् (डीएसआर) सम्मेलनम् (कॉन्क्लेव्) मध्ये सहभागी अभवत्।
वाराणसी,06 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत्, राष्ट्रस्य खाद्यान्नोत्पादने केवलम् उत्तरप्रदेशस्य एकविंशतिः प्रतिशतं योगदानम् अस्ति। राज्यस्य शासनप्रयत्नैः उत्तरप्रदेशे अन्न, दलहन, तिलहन तथा शाकोत्पादनस्य क्षमता पञ्चगुणं पर्यन्तं वर्धिता अस्ति। अतः विश्वासः अस्ति यत् द्विचक्रशासनकाले ‘नव–उत्तरप्रदेशः’ भारतस्य अन्नकोशरूपेण प्रकटिष्यते। राज्यस्य अनुकूलाः कृषि–जलवायविकाः परिस्थितयः एतत् कृषि–क्षेत्रे वैश्विकं नेतृत्वं दातुं समर्थाः सन्ति।
मुख्यमन्त्री योगी सोमवासरे स्वस्य द्विदिनीय वाराणसी–प्रवासनिमित्तं चाँदपुरस्थिते अन्तरराष्ट्रीय–धान–अनुसन्धान–संस्थानस्य (आइसार्क्) प्राङ्गणे आयोजिते त्रिदिवसे डायरेक्ट् सीडेड् राइस् (डीएसआर्) संमेलनम् अभाषत। अस्मिन् अवसरि सः राज्यस्य कृषि–क्षेत्रस्य उपलब्धीः, चुनौतिः तथा भावी योजनाः अपि विवृणोत्। तेन उक्तं यत् इरी तथा आइसार्क् इत्येतयोः संस्थयोः सदा अस्मिन् क्षेत्रे सहयोगः प्रदत्तः अस्ति। योगी–मुख्यमन्त्री उक्तवान् यत् गतैकादशवर्षेषु प्रदेशस्य कृषि–व्यवस्थायाम् व्यापकाः क्रान्तिकारी च परिवर्तनानि अभवन्। प्रधानमन्त्रिणा नरेन्द्रेण मोदिना नेतृत्वे कृषकाः मृत्तिकास्वास्थ्य–पत्रम्, फसलबीमा, न्यूनतम–समर्थन–मूल्य (एमएसपी) इत्यादिषु योजनासु लाभम् अलभन्त। तेन सह प्रति वर्षं दशकोटि कृषकाः ‘प्रधानमन्त्री–किसानसम्माननिधि’ अन्तर्गतं आर्थिकसहाय्यं लभन्ते इति।
कृषिनवाचारशृङ्खलायाः अनावरणम्
मुख्यमन्त्रिणा समागमे कृषि–ज्ञान–उत्पादानां यन्त्रनवाचार–श्रृंखलायाः च अनावरणम् अपि कृतम्। सः डायरेक्ट् सीडेड् राइस् तथा शून्य–जुत–गेहूं (Zero–Tillage Wheat) आधारित–उत्पादानाम् उद्घाटनम् अकुरुत। तेन सह ‘समृद्धिः धान–नेटवर्क्’ आधारित–सामग्री अपि उद्घाटिता। कृषकेभ्यः मिनी–किट्स् वितरणं च कृतम्।
— अन्ताराष्ट्रियसहयोगः तथा अनुसंधानसंस्थायाः सहभागिता
मुख्यमन्त्रिणा उक्तं यत् उत्तरप्रदेशे चत्वारः कृषि–विश्वविद्यालयाः सक्रियाः सन्ति, अपि च नूतनः विश्वविद्यालयः अपि स्थाप्यते। इरी, आइसार्क् इत्यादयः वैश्विकाः अनुसंधान–संस्थाः कृषिनवाचारं प्रामाणिककृषिं च प्रवर्तयन्ति। तेन उक्तं यत् इरी तथा इंटरनेशनल् पोटैटो सेंटर् (सिप्) इत्येतयोः विशेषज्ञतां ज्ञान–व्यवस्थापनाय क्षमतानिर्माणाय च उपयोजयितुं आवश्यकम्। योगी–मुख्यमन्त्रिणा इरी तथा इन्दिरागान्धीकृषिविश्वविद्यालय–रायपुरसंयुक्तया विकसितयोः डायरेक्ट् सीडेड् राइस् तथा शून्य–टिलेज् गोधूमज्ञान–उत्पादयोः उद्घाटनम् अपि कृतम्। तेन सह ‘समृद्धिः धान–नेटवर्क्’ इत्यस्य अन्यस्य सामग्री–समुच्चयस्य अपि अनावरणम् अकुरुत।
पारम्परिककृषिज्ञानस्य संरक्षणे बलम्
मुख्यमन्त्रिणा भारतीयकृषि–परम्परायां निहितस्य ज्ञानस्य सुदृढीकरणे बलं दत्तम्। तेन उक्तं यत् अस्माभिः स्वीयां समृद्धां पारम्परिकां कृषि–परम्परां संरक्षित्य, ताम् आधुनिक–नवाचारैः संयोजयितुं आवश्यकम्। तेन ‘काल–नमक–धानम्’ उदाहरणरूपेण निर्दिष्टम् — यत् न केवलं प्रमुखं ‘एकः–जनपदः एक-उत्पादः’ (ODOP) इति उत्पादः अस्ति, अपि तु तस्य ऐतिहासिकः महत्त्वः अपि अस्ति, यतः तत् भगवान् बुद्धाय महाप्रसादरूपेण समर्पितं जातम् आसीत्।
— उत्तरप्रदेशकृषिविभागस्य शतपञ्चाशदधिकवर्षसमारम्भः
अस्मिन् अवसरे उत्तरप्रदेश–कृषि–विभागस्य १५०वीं वार्षिकोत्सवः अपि आचरितः। तेन सह “२०३० पर्यन्तं उत्तरप्रदेशं वैश्विकं अन्न–आपूर्तिकर्तारं कर्तुं विचार–विमर्शः” इति विशेष–सत्रं आयोजितम्। अस्मिन् सम्मेलनं राज्यस्य कृषि–मन्त्री सूर्यप्रसाद–शाही, राज्यमन्त्री रविन्द्र–जायसवालः, डॉ॰ दयाशंकर–मिश्रः ‘दयालुः’, बलदेवसिंह–औलखः च उपस्थिताः आसन्। इरीमहानिदेशिका डॉ॰ इवोनपिण्टो, सीआईपीमहानिदेशकः डॉ॰ साइमन–हेक्, तथा कृषिमन्त्रालयस्य संयुक्तसचिवः अजीतकुमारसाहू अपि उपस्थिताः आसन्। अन्तरराष्ट्रीय–प्रतिनिधिषु श्रीलङ्का, कम्बोडिया, वियतनामदेशेषु वरिष्ठकृषि–अधिकरिणः अपि सहभागी आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता