Enter your Email Address to subscribe to our newsletters
महर्षेः वाल्मीकेः जीवनं सर्वेषां प्रति प्रेरणायाः स्रोतः अस्ति इति भूपेन्द्रचौधरी।
लखनऊनगरम्, 07 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठक तथा भारतीयजनतापक्षस्य प्रदेशाध्यक्षः भूपेन्द्रचौधरी परिवर्तनचतुष्के, लखनौ नगरे आदिकवेः महर्षेः वाल्मीकेः जयन्त्यां आयोजिते हवने पूजने च सहभागीभूत्वा महर्षेः वाल्मीकिनः प्रतिमायां माल्यान्यर्पितवन्तौ।
‘जन्मोत्सवसमारोहे’ प्रदेशाध्यक्षेन उक्तम् यत्—महर्षेः वाल्मीकिनः जीवनं समता-त्याग-करुणानां संदेशरूपेण सर्वेषां प्रति प्रेरणायाः स्रोतः अस्ति। स एव प्रभोः श्रीरामचन्द्रस्य आदर्शचरित्रं रामायणरूपेण लेखनं कृतवान्।
अस्मिन् अवसरि हातरससांसदः अनुपप्रधानः, पूर्वसांसदः अशोकवाजपेयी, कमलवाल्मीकि, विधानपरिषदसदस्यः रामचन्द्रप्रधानः, एम्.एल्.सी. मुकेशशर्मा, प्रदेशमन्त्री अमितवाल्मीकि, महानगराध्यक्षः आनन्दर् द्विवेदी, महानगरोपाध्यक्षः सौरभवाल्मीकि, रविवाल्मीकि, करणदीवान् इत्यादयः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता