भूस्खलनं, प्रस्तरपतनेन मृत्तिकाखननकारणेन जम्मू-श्रीनगर राष्ट्रिय राजमार्ग वाहनानाम् आवागमाय पिहितः
श्रीनगरम्, 7 अक्टूबरमासः (हि.स.)।अतिवृष्टेः परिणामस्वरूपेण अनेकेषु स्थानेषु भूस्खलनम्, शिलापतनम्, भूमेः धंसनं च जातम्। तेन कारणेन जम्मू–श्रीनगर-राष्ट्रीयराजमार्गः (एन.एच्.-४४) इत्यस्मात् वाहनानां आवागमनं निरुद्धम्। यातायातविभागस्य कश्चन अधिकारी अव
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग में आई भारी रुकावट के बाद ऐतिहासिक मुगल रोड घाटी की एकमात्र जीवनरेखा बनकर उभरा


श्रीनगरम्, 7 अक्टूबरमासः (हि.स.)।अतिवृष्टेः परिणामस्वरूपेण अनेकेषु स्थानेषु भूस्खलनम्, शिलापतनम्, भूमेः धंसनं च जातम्। तेन कारणेन जम्मू–श्रीनगर-राष्ट्रीयराजमार्गः (एन.एच्.-४४) इत्यस्मात् वाहनानां आवागमनं निरुद्धम्।

यातायातविभागस्य कश्चन अधिकारी अवदत् यत् हिमसंचयकारणात् मुगलमार्गः, एस्.एस्.जी.मार्गः, सिन्थन्-शिखरः च अपि परिवहनोपयोगाय निरुद्धाः सन्ति।

अधिकारीभिः यात्रिणः, परिवहनकर्तारः च यावत् मार्गाः पूर्णतया पुनः उद्घाट्यन्ते, तावत् एतेषु मार्गेषु यात्रां न कर्तुं दृढतया उपदिष्टम्।

प्रमुखेषु स्थानेषु कर्मचारिणां यन्त्राणां च नियुक्त्या सह निकासनकार्यं निरन्तरं प्रवर्तते।

अधिकारीभिः जनान् प्रति आग्रहः कृतः यत् — “अफवाहाः मा श्रुणुत, केवलं अधिकृत-यातायात-नियन्त्रण-स्रोतैः एव मार्गाणां स्थितिं परीक्ष्य विश्वसनीयां सूचना लभध्वम्।”

हिन्दुस्थान समाचार