Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 7 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामप्रदेशेषु अद्य ऋतुप्रथमा हिमवृष्टिः अभवत्। सर्वत्र श्वेतहिमावरकस्य आच्छादनं जातम्। बहूनां वर्षाणां परं अक्तुबरमासे एव एतादृशं रमणीयं दृश्यं दृष्टुं लब्धम्।
जनपदे सर्वत्र सोमवासरे आरब्धा रिमझिमवृष्टिः अद्य गङ्गोत्री-यमुनोत्री-क्षेत्रैः सह दयारायाः हरकीदूनघाट्याः च, भारत-चीन-सीमायाः अग्रिमचौक्याः — पीडीए, सोनम्, जादूंग्, नेलाङ्घाटी इत्येषां उच्चशृङ्गेषु आरब्धा हिमवृष्टिः अद्यापि अनवरता प्रवहति। बहूनां वर्षाणां परं अक्तुबरमासे एव हिमवृष्टिः दृष्टा। अस्मिन् आकस्मिके ऋतु-परिवर्तनेन तीव्रा शैत्यप्रवृत्तिः जाताऽस्ति।
ऋतुपूर्वानुमानस्य आधारात्, जनपदस्य अधिकांशभागेषु साधारणवृष्टेः स्थितिं दृष्ट्वा, जनपदाधिकारी प्रशान्त:आर्य: नामकः जनपद-आपत्कालीन-परिचालन-केंद्रे, यात्रा-नियन्त्रण-कक्षे च उपस्थितः सन् चारधामयात्रायाः आगतयात्रिकाणां वाहनानां सुरक्षितं सावधानीयुक्तं च आवागमनं सुनिश्चितुम्, मार्गान् सुचारुं सुलभं च स्थापयितुं सर्वान् सम्बन्धित-विभागान् निर्दिष्टवान्। तदनन्तरं आवश्यकव्यवस्थासु सततम् निरीक्षणं क्रियते। वर्तमानऋतुस्थितिं दृष्ट्वा सर्वाः व्यवस्थाः सुदृढरूपेण संस्थापिताः।
गतदिनेभ्यः ऋतुः निर्मला आसीत्, तेन जनपदे स्थितयोः यमुनोत्री-गङ्गोत्री-धामयोः श्रद्धालूनां सङ्ख्यायां वृद्धिः दृष्टा। उभयोः धामयोः श्रद्धालूनां गतिविधिः दर्शनीया।
ऋतुवैज्ञानिकानां चेतावनी — अस्य वर्षस्य शैत्यं तीव्रं दीर्घं च भविष्यति।
उत्तराखण्डस्य पर्वतीयजनपदेषु असामान्यरूपेण दीर्घं कठोरं च शैत्यऋतुकालं आगन्तुं सज्जीकरणं प्रवर्तते। ऋतुवैज्ञानिकैः चेतावनी दत्ता यत् “ला-नीना” प्रभावेन अतिवृष्टिः हिमस्य तथा दीर्घकालपर्यन्तं शैत्यं भविष्यति। तेन वसन्तऋतुः २०२६ वर्षस्य मार्चमासपर्यन्तं विलम्बेन आगमिष्यति।
पन्तनगर-विश्वविद्यालयस्य ऋतुविशेषज्ञः ए.एस. नैन इत्यनेन उक्तं यत् राज्ये दिसम्बरमासादारभ्य “ला-नीना” प्रभावः द्रष्टुं लभ्यते। तेन अपेक्ष्यते यत् तापमानं निरन्तरं न्यूनं भविष्यति, येन पर्वतीयप्रदेशेषु अत्यधिकं शैत्यं प्रवर्तिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता