काशीहिन्दुविश्वविद्यालयस्य शोधकर्तृभिः अन्ताराष्ट्रीयसम्मेलने भारतस्य गौरवः वर्धितः
डा॰ ज्योतिसिंह इत्यस्यै “सर्वश्रेष्ठमौखिकप्रस्तुतिः” पुरस्कारः प्रदत्तः वाराणसी, 9 अक्टूबरमासः (हि.स)वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालये (बीएचयू) अन्तर्गते पर्यावरण-धारणीयविकाससंस्थाने विद्यमानाः शोधकर्तारः पुनरपि अन्ताराष्ट्रीयस्तरे विश्वव
फोटो प्रतीक


डा॰ ज्योतिसिंह इत्यस्यै “सर्वश्रेष्ठमौखिकप्रस्तुतिः” पुरस्कारः प्रदत्तः

वाराणसी, 9 अक्टूबरमासः (हि.स)वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालये (बीएचयू) अन्तर्गते पर्यावरण-धारणीयविकाससंस्थाने विद्यमानाः शोधकर्तारः पुनरपि अन्ताराष्ट्रीयस्तरे विश्वविद्यालयस्य यशः वर्धितवन्तः।

अल्-फ़ारबी-कज़ाख्-राष्ट्रिय-विश्‍वविद्यालये, अल्माटीनगरे (कज़ाखस्ताने) ६-८ अक्टूबर् २०२५ तमे दिनाङ्के आयोजिते “पर्यावरणीय-स्थिरता — नवनवोन्मेषाः, आव्हानानि, समाधानानि” इति अन्ताराष्ट्रीय-सम्मेलने संस्थानस्य द्वौ शोधकर्तारौ स्वस्व-अभिनवशोधयोः प्रस्तुतीकृतवन्तौ। एषा सूचना विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन गुरुवासरे प्रदत्ता।

संस्थानस्य शोधसहायका डॉ॰ ज्योति सिंह इत्यस्याः “भिण्ड्यां लवणता-प्रेरित-उद्वेगस्य निवारणार्थं हैलोटॉलरेंट् पीजीपीआर-माध्यमेन धारणीया कृषि-पद्धतयः” इति विषयकं शोधं प्रस्तुतीकृतवती।

तस्याः वचनानुसारं, भारतस्य अनेकेषु प्रदेशेषु भूमेः लवणता कृषि-उत्पादकत्वाय गम्भीरं संकटं जातम्। तस्या अध्ययनेन स्पष्टं जातं यत् “हैलोटॉलरेंट् पादप-वृद्धि-प्रोत्साहक-राइजोबैक्टीरिय इत्यस्य” उपयोगः प्रभावी च पर्यावरणमित्रं च समाधानं स्यात्, यत् भूमेः स्वास्थ्यवर्धनं, पादपसहिष्णुतावृद्धिः च, अन्नसुरक्षायाः च सुनिश्चिततायां सहायकः भवेत्।

तस्याः उत्कृष्टशोधकार्यस्य प्रशंसार्थं तां “सर्वश्रेष्ठ-मौखिक-प्रस्तुति-पारितोषिकेन” सम्मानिता। संस्थानस्य एव अन्यः शोधार्थी हिमांशुः पाठकः “नद्याः जलस्य सिंचनात् भूमेः स्वास्थ्ये पादप-जीवरसायने च प्रभावः — इंडो-गैंगेटिक-प्रदेशस्य अध्ययनम्” इति विषयेन शोधं प्रस्तुतीकृतवान्।

तस्य अध्ययनात् ज्ञातं यत् नद्याजल-सिंचनेन भूमेः भौतिक-रासायनिक-गुणधर्माः, एंजाइम-क्रियाशीलताः, पालकादि-फसलीनाम् जैवरासायनिक-प्रतिक्रियाः च सार्थकं प्रभावं प्राप्नुवन्ति।

एषः शोधः धारणीय-जल-व्यवस्थापनस्य, भूमिस्थिरतायाः, अन्नसुरक्षायाः च विषयेषु जागरूकता-वृद्ध्यर्थं महत्वपूर्णः प्रयासः अस्ति।

विश्वविद्यालयस्य जनसम्पर्काधिकारी अवदत् यत्, एषा द्वयोः शोधकर्तृयोः अन्ताराष्ट्रीय-सहभागिता न केवलं गौरवस्य विषयः, अपि तु विश्वविद्यालयं धारणीय-कृषि-पर्यावरणीय-अनुसन्धानक्षेत्रयोः वैश्विकस्तरे स्वसशक्तपरिचयं निर्माति इति।

हिन्दुस्थान समाचार / अंशु गुप्ता