सांसदः प्रवीनखण्डेलवालः देहलीविस्फोटस्य पीडितेषु कृतं सौरभभारद्वाजस्य ट्वीट् लज्जास्पदम् इति अभ्यचष्ट।
नवदेहली, १३ नवम्बरमासः (हि.स.)। चाँदनीचौक इत्यस्य सांसदः प्रवीनखण्डेलवालः “आमआदमीपक्षस्य (आ.आ.पा.)” देहलीप्रदेशसंयोजकेन सौरभभारद्वाजः कृतं ट्विट् अत्यन्तं लज्जास्पदं इति उक्तवान्। ते अवदन् यत् या पक्षःअसत्यस्य आधारेण निर्मिता, सा अधुना देहलीविस्फो
चांदनी चौक के सांसद प्रवीन खंडेलवाल (फाइल फोटो)


नवदेहली, १३ नवम्बरमासः (हि.स.)। चाँदनीचौक इत्यस्य सांसदः प्रवीनखण्डेलवालः “आमआदमीपक्षस्य (आ.आ.पा.)” देहलीप्रदेशसंयोजकेन सौरभभारद्वाजः कृतं ट्विट् अत्यन्तं लज्जास्पदं इति उक्तवान्। ते अवदन् यत् या पक्षःअसत्यस्य आधारेण निर्मिता, सा अधुना देहलीविस्फोटपीडितेषु अपि राजनीतिकरणात् न विरमति। एषः सीधा निर्व्यवसायिनः नेतुः राजनीतिकदुर्बलतायाः द्योतकः अस्ति।”

उल्लेखनीयं यत् सौरभभारद्वाजेन विस्फोटपीडितस्य हस्ते विद्यमानं अस्थिबन्धनं प्रति प्रश्नं कृत्वा, तथा पीडितैः सह मिलन्तं प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्री रेखागुप्तानाम्नोः छायाचित्रम् अपि ट्विट् कृतम् आसीत्। खण्डेलवालेन सांसदेन गुरुवासरे विज्ञप्तिपत्रं निर्गतम्, यस्मिन् उक्तम् — “सौरभभारद्वाजः विस्फोटपीडितान् अपि असत्यराजनीत्या प्रभावितुं यत्नं करोति। अहं ११ नवम्बरदिनाङ्के १२:१५ वादने एल.एन.जेपी. चिकित्सालयं गतवान् आसं; तदा पीडितस्य उपचारः आरब्धः आसीत्, अस्थिबन्धनं च यथावत् लग्नम् आसीत्। यदा अहं तत्रासं, तदा एव सौरभभारद्वाजः अपि तत्र उपस्थितः। तेन अपि छायाचित्राणि गृहीतानि स्युः। यदि साहसमस्ति, तानि प्रकाशितुं शक्नोतु — ततः ‘दूध का दूध, पानी का पानी’ इति स्पष्टं भविष्यति।”

सांसदः खण्डेलवालः अवदत् — “पराजयेन सौरभभारद्वाजः च आ.आ.पा. च एतावत् अधः पतितौ यत्, ते अधुना न केवलं पीडितान् प्रति प्रश्नं कुर्वन्ति, अपि तु यथा सेनां प्रति पूर्वं प्रश्नान् कृतवन्तः, तथा एव इतिहासं पुनरावर्तयन्ति। अधुना असत्यं प्रसार्य प्रश्न–उत्थापनं आ.आ.पा.–पक्षस्य स्वभावः जातः। जनान् प्रति मुखं दर्शयितुं न शक्नुवन्ति, परमेश्वरं प्रति कथं उत्तरं दास्यन्ति?”

ते अवदन् — “मुख्यमन्त्री रेखागुप्ता १० नवम्बररात्रौ एव एल.एन.जेपी. चिकित्सालये विस्फोटपीडितैः सह मिलितवती। विस्तृतवैद्यकीयपरीक्षणानन्तरं तस्मिन्नेव दिवसे रुग्णस्य हस्ते अस्थिबन्धनं आरोपितम्। अहं ११ नवम्बर दिनाङ्के १२:१५ वादने चिकित्सालयं गतवान्, तत्र घातितैः सह मिलितवान् च। मम निर्गमनात् अनन्तरमेव सौरभभारद्वाजः अपि तत्र आगतः, प्रधानमन्त्रिणः आगमनात् एकं दिवसं पूर्वम्। तस्मात् स्पष्टं यत् — पीडितस्य सम्पूर्णः उपचारः प्रधानमन्त्रिणः आगमनात् पूर्वमेव आरब्धः। एतेन सौरभभारद्वाजस्य असत्यवचनस्य आवरणम् उद्घाटितम्। अतीव लज्जास्पदा राजनीति तेन क्रियते। तस्मै पीडितेषु न सहानुभूतिः, केवलं राजनीतिकरणमेव तस्य उद्देश्यं अस्ति।”

हिन्दुस्थान समाचार / Dheeraj Maithani