Enter your Email Address to subscribe to our newsletters

मुजफ्फरपुरम्, 13 नवंबरमासः (हि.स.)।बिहारराज्ये विधानसभानिर्वाचनस्य अनन्तरं अद्य १४ नवम्बरदिनाङ्के मतगणनाकार्यं भविष्यति। मुजफ्फरपुरजिलस्य एकादशविधानसभाक्षेत्राणां मतगणनास्थानं बाजारसमितौ निर्धारितं कृतम् अस्ति। कटीने सुरक्षा–व्यूहे संस्थापिते जिलाप्रशासनस्य दलं समग्रव्यवस्थायां सावधानतया संलग्नम् अस्ति यत् मतगणनाकार्यं निर्विघ्नं सम्पन्नं भवेत्।
एतस्मिन् विषये अनुमण्डल–कार्यालयेन पूर्वदिशायां एकः आदेशः प्रकाशितः अस्ति, यस्मिन् मतगणनां प्रति यातायात–व्यवस्थापनस्य मार्ग–नियोजनं वाहन–निवेशनस्थानस्य विवरणं च निर्दिष्टम् अस्ति। जिलाप्रशासनस्य पत्रानुसारं बाजार–समितेः मतगणनास्थलस्य दिशि गच्छन्ति ये सर्वे प्रकाराः भारी–वाहनाः, तेषां प्रवेशः पूर्णतः निषिद्धः भविष्यति।
बाजार–समितेः मतगणनास्थलस्य द्वारसंख्या–२ तः सर्वे प्रत्याशी निर्वाचन–अभिकर्तारश्च प्रवेक्ष्यन्ति, द्वारसंख्या–१ तः मतगणनाधिकारी कर्मचारीणश्च प्रवेशं करिष्यन्ति। द्वारसंख्या–२ एव माध्यम–कर्मिणां (मीडिया–कर्मिणां) प्रवेशार्थं नियोजितः। मतगणनाधिकारीणां कर्मचारीणां च वाहननिवेशनाय “जीरो–माइल” इत्यस्मात् दिशि मतगणनाद्वारसंख्या–१ पर्यन्तं, वामदक्षिण–भागयोः बैरिकेडिङ्गस्य अन्तर्भागे विशेषव्यवस्था कृता अस्ति।
द्वारसंख्या–१ द्वारसंख्या–२ च मध्ये निर्दिष्ट–निवेशनस्थले सर्वे सहायक–निर्वाचनाधिकारी स्व–वाहनानि स्थापयिष्यन्ति। निर्वाचन–पर्यवेक्षकाः वरिष्ठाधिकारीगण निर्वाचित–अधिकारीणश्च वाहनानि बाजार–समितेः अन्तर्भागे एव नियोजित–निवेशनस्थले स्थापयिष्यन्ति।
तथैव आदेशेन निर्दिष्टम् यत् बखरी–मोड् इत्यस्मात् आगच्छन्ति ये सर्वे वाहनाः ते अहियापुर–चौरात् शाहबाजपुरं गत्वा “जीरो–माइल” दिशि आगमिष्यन्ति। दादर–पुलः, एसकेएमसीएच्, अखाडाघाट्–पुल इत्यस्मात् दिशि आगच्छन्ति ये वाहनाः ते बाजार–समितेः मतगणनास्थले प्रवेशं न करिष्यन्ति (अनिवार्य–सेवायाः वाहनान् वर्ज्य)।
सर्वे प्रत्याशी गणनाभिकर्तारश्च स्व–वाहनानि द्वारसंख्या–२ तः बखरीमार्गस्य उभयतः पार्श्वयोः स्थापयिष्यन्ति, यत्र निवेशनस्थलानि जिलाप्रशासनद्वारा चिन्हितानि सन्ति। अखाडाघाट्–दिशि आगच्छन्तः निर्वाचन–अभिकर्तारः स्व–वाहनानि “जीरो–माइल” मार्गस्य वामदक्षिणयोः चिन्हित–निवेशनस्थले स्थापयिष्यन्ति। दादर–पुल–मेडिकल–दिशि आगच्छन्तः अभिकर्तारः अपि स्व–वाहनानि “जीरो–माइल” तः मेडिकलमार्गस्य उभयतः चिह्नितस्थले स्थापयिष्यन्ति।
हिन्दुस्थान समाचार