Enter your Email Address to subscribe to our newsletters

17 नवंबर दिनांके इंदिरा गांधी प्रतिष्ठाने भविष्यति “विकसित उत्तर प्रदेश@2047” इत्येस्मिन् विचारे मंथनम्
कृषकाणाम् आयस्त्रिगुणितं कृषि विभागस्य केंद्रम्
लखनऊ,13 नवंबरमासः (हि.स.)।प्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही गुरुवासरे लखनऊस्थिते कृषिभवनसभागारे “विकसितउत्तरप्रदेश@2047” इति विषयकायां पत्रकारपरिषदायां भाषमाणः अवदत् यत् “मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे राज्यसर्वकारो वर्षे 2047 पर्यन्तं उत्तरप्रदेशं पूर्णविकसितराज्यरूपेण स्थापयितुं संकल्पिता अस्ति।”
ते अवदन् यत् प्रधानमन्त्रिणः “विकसितभारत@2047” इति दृष्टिकोणं अनुसृत्य राज्यसरकारा सर्वेषां विभागानां कृते दीर्घकालीनयोजनाः सिद्धाः। तस्मिन् एव क्रमेम कृषिविभागेनापि दृढा कार्ययोजना निर्मिता, यस्य लक्ष्यं कृषकानां आयवृद्ध्या उत्तरप्रदेशं आत्मनिर्भरं समृद्धं टिकाऊकृषिअर्थव्यवस्थारूपेण स्थापयितुम् अस्ति।कृषिमन्त्री उक्तवान् यत् “विकसितउत्तरप्रदेश@2047” इत्यस्य विषयस्य अधीनं जनसंवादविचारमन्थनकार्यक्रमः आगामिनि 17 नवम्बर 2025 तमे दिने लखनऊनगरे इन्दिरागान्धिप्रतिष्ठाने मरकरीहॉलनामके स्थले आयोज्यः। अस्मिन् कार्यक्रमे प्रायः त्रिशतं (300) कृषिविशेषज्ञाः वैज्ञानिकाः प्रगतिशीलकृषकाः अधिकारीणश्च सहभागं करिष्यन्ति। अस्मिन्नेव कार्यक्रमे नीति-आयोगेन भारतसरकारायाः परामर्शेन कृषिक्षेत्रस्य दीर्घकालिकं “विजन-डॉक्युमेंट् 2047” नामकं दस्तावेजं सिद्धं भविष्यति, यस्मिन् प्रदेशस्य कृषिउत्पादनक्षमता, निर्यातम्, प्रसंस्करणं, रोजगारसृजनं च केन्द्रस्थानीकृत्य विवेचनं भविष्यति।
ते अवदन् यत् उत्तरप्रदेशराज्यं गेहूं, चावल, गन्ना, आलू इत्येषां उत्पादनक्षेत्रेषु देशे प्रथमं स्थानं धारयति। बाजर, मसूर, राई, सरसपि उत्पादनक्षेत्रेषु द्वितीयं स्थानं, दलहनउत्पादनक्षेत्रे च चतुर्थं स्थानं प्राप्नोति।
कृषिमन्त्री उक्तवान् यत् “कृषकानां आयं त्रिगुणीकर्तुम्, प्राकृतिककृषिं प्रोत्साहयितुम्, कृषिनिर्यातं 50 अब्ज-अमेरिकी-डॉलरपर्यन्तं नेतुम्, महिलाकृषकानां सहभागितां वर्धयितुम्, जैविकउत्पादनानां राज्यस्तरीयं ब्राण्ड् निर्मातुं, खाद्यप्रसंस्करणएककानां विस्तारं कर्तुम्, नूतनतमान् प्रौद्योगिकीनवाचारान् नीतिनिर्माणे सम्मिलयितुं च एते सर्वे संकल्पाः योजनायाः भागाः सन्ति।”
ते पुनरुक्तवन्तः यत् “एतेषां द्वाविंशतिसङ्कल्पानां माध्यमेन उत्तरप्रदेशं वर्षे 2047 पर्यन्तं विकसितं आत्मनिर्भरं आधुनिकं कृषिराज्यं कर्तुं प्रयत्नः क्रियते। अस्मिन् दिशि नवाचारः, तन्त्रज्ञानैक्यं, मूल्यमर्धनं, बाजारविस्तारः, महिलासशक्तीकरणं, ग्राम्यअर्थव्यवस्थायाः पुनर्रचना च विशेषतया प्राधान्येन विविच्यन्ते।अन्ते कृषिमन्त्री कृषकान् वैज्ञानिकान् युवांश्च आह्वयन् अवदत् यत् “यूयं सर्वेऽपि अस्मिन् महत्सङ्कल्पमिशने सक्रियतया सहभागित्वं कुर्वन्तु, यथा उत्तरप्रदेशः भारतस्य कृषिमानचित्रे ‘विकसितउत्तरप्रदेश@2047’ इति नूतनां प्रतिष्ठां स्थापयितुं शक्नोति।”पत्रकारपरिषदि कृषिराज्यमन्त्री बलदेवसिंह ओलख अपि उपस्थितः आसीत्।
-------------
हिन्दुस्थान समाचार