Enter your Email Address to subscribe to our newsletters

- 124 कोटिमितव्ययेन नगर विकासस्य परतया प्रयागराजस्य अरैलक्षेत्रे यमुनातटे निर्मास्यते पब्लिकप्लाजापार्क
प्रयागराजः, 13 नवंबरमासः (हि.स.)।संगमनगरी इत्यस्य ख्यातिः धार्मिकसाहित्यिकसांस्कृतिकनगरीरूपेण प्रसिद्धा अस्ति। योगीसरकारेण आयोज्यमानस्य महाकुम्भस्य २०२५ तमे वर्षे भव्यस्य दिव्यस्य च आयोजनस्य माध्यमेन अस्याः नगर्याः समृद्धा सांस्कृतिकधार्मिकपरिचयः विश्वपटलपर्यन्तं प्रसरितः। अस्य भव्यस्य आयोजनस्य अनन्तरं अधुना कुंभनगरे जापानीसनातनसंस्कृत्योः अपि सुंदरः संयोगः भविष्यति।
भारतस्य सनातनसंस्कृत्या: जापानदेशीयायाः शिन्तोसंस्कृत्याश्च संयोगस्य साक्षिणी भविष्यति संगमनगरी। सहस्रशः किलोमीट्रपर्यन्तं दूरं भाषाभेदश्च सन्तोऽपि भारतस्य सनातनसंस्कृतौ जापानस्य पारम्परिकशिन्तोसंस्कृतौ च आश्चर्यजनका समानता दृश्यते। उभे संस्कृती देवतुल्यां प्रकृतिं पूजयतः, आत्मसंयमं परममूल्यं मन्येते, शान्तिं च जीवनस्य आधारं पश्यतः। एतयोः संस्कृत्योः एकत्वस्य झलकां द्रष्टुं संगमनगरी प्रयागराजः सज्जः अस्ति।
अत्र जापानीस्थापत्यसांस्कृतिकचिह्नैः प्रेरितः पब्लिकप्लाजापार्कः निर्मीयते। नगरविकासविभागेन अस्य निर्माणकार्यं १२४ कोटिरूप्यकाणां व्ययेन क्रियते, कार्यदायिनी संस्था सीएनडीएस नामिका अस्ति। अस्य परियोजनायाः प्रोजेक्टप्रबन्धकः रोहितकुमारराणानामकः उक्तवान् यत् प्रयागराजे यमुनातटे अरैलप्रदेशे शिवालयपार्कस्य समीपे त्रिहेक्टेयरविस्तीर्णे क्षेत्रे अस्य निर्माणं भविष्यति। नगरनिगमाय प्रयागराजाय अस्य मूल्याङ्कनं प्रेषितं जातम्। अत्र भारतीयजापानीयसंस्कृत्योः संयुक्तस्थापत्यचिह्नानि उपयोग्यन्ते।
कला–सौन्दर्ययोः मध्ये अध्यात्मभावः संलक्ष्यते। प्रयागराजमहाकुम्भस्य समये धार्मिकाध्यात्मिकपार्कानां केन्द्रं इदम् आसीत्। अरैलप्रदेशे शिवालयपार्कानन्तरं साहित्यपार्कस्य निर्माणक्रमे अधुना नवीनं उपलब्धिं लभते। यमुनानदीतीरे पब्लिकप्लाजापार्कस्य निर्माणं प्रवृत्तम्। कार्यदायिनीसंस्थायाः प्रोजेक्टप्रबन्धकः रोहितकुमारराणः अवदत्—पार्के पञ्च क्षेत्राणि विन्यस्यन्ते। अस्य सर्वत्र जापानस्य शिन्तोसंस्कृतेः भारतीयसनातनसंस्कृतेः च साझा मूल्यानां प्रतिबिम्बं दृश्यते।
पार्कस्य प्रवेशद्वारे शिन्तोसंस्कृतेः प्रतीकरूपेण “तोरीगेट्” नामकद्वारं निर्मीयते। तत्र जापानीयउद्यानः निर्मीयते, यस्मिन् “मियावाकीवनं” अपि विकसितं भविष्यति। अस्मिन् उद्याने योगः भारतीयमन्दिरवास्तुशिल्पं नृत्यं संगीतं च यथा दृश्यते, तथा जापानदेशीयाः “टीसेरेमनी”, “इकेबाना”, “जेनगार्डन” इत्यादिषु अपि आध्यात्मिकभावः प्रकटते। अत्रापि “जेनपार्क” नामकं स्थळं निर्मीयते।
उभयोः देशयोः कला न केवलं शोभायै, अपितु आत्मानुशासनस्य साधनाय च साध्यते। समरसता शान्तिः विश्वबंधुत्वं च—एते भारतस्य “वसुधैवकुटुम्बकम्” इति दर्शनस्य तथा जापानस्य “वा” इति तत्त्वस्य समानं संदेशं वहन्ति। तदेव संदेशं अस्मिन्पार्के स्थाप्यमानेषु प्रतीकेषु सुस्पष्टं दृश्यते।
---------------
हिन्दुस्थान समाचार