सेवा-समर्पणैः एव भारतस्य सांस्कृतिकशक्तिजीवितः अस्ति - स्वामी कैलाशानन्द गिरिः
लखनऊनगरम्, १५ नवम्बरमासः (हि.स.)। लखनऊविश्वविद्यालयस्य ए.पी. सेनसभागारे आयोजिते अस्तित्वसम्मानसमारोह इत्यस्मिन् उद्घाटनं शनिवासरे निरञ्जनपीठाधीश्वरः स्वामी कैलाशानन्द गिरिमहाराजः दीपप्रज्वलनपूर्वकं कृतवान्। तस्मिन्नवसरे स्वामी कैलाशानन्द गिरिणा सत्
कार्यक्रम का शुभारंभ करते स्वामी कैलाशानंद गिरी


पुस्तक का विमोचन करते अतिथि


लखनऊनगरम्, १५ नवम्बरमासः (हि.स.)। लखनऊविश्वविद्यालयस्य ए.पी. सेनसभागारे आयोजिते अस्तित्वसम्मानसमारोह इत्यस्मिन् उद्घाटनं शनिवासरे निरञ्जनपीठाधीश्वरः स्वामी कैलाशानन्द गिरिमहाराजः दीपप्रज्वलनपूर्वकं कृतवान्। तस्मिन्नवसरे स्वामी कैलाशानन्द गिरिणा सत्यनारायण-अवस्थिना विरचिते ‘कृपानुभूति’ इति ग्रन्थे तथा ‘कश्मीर-जम्मू-लद्दाक्षस्य ऐतिहासिको सांस्कृतिकदृश्यः’ इति ग्रन्थे लोकार्पणं कृतम्।तस्मिन्नवसरे भाषमाणः स्वामी डॉ. कैलाशानन्द गिरिमहाराजः अवदत्— “ये समाजे सेवासमर्पणाभ्यां प्रेरिताः सन्तः कार्यं कुर्वन्ति, ते एव अस्य राष्ट्रस्य सांस्कृतिकशक्तिं जीवयन्ति। तादृशानां व्यक्तीनां सम्मानः अस्माकं कर्तव्यं भवति।”

विकल्पसोसाइटी इत्यस्य महासचिवः शेखरत्रिपाठी अवदत्—“अस्माकम् उद्देश्यः एषः यत् समाजस्य यः कश्चन जनः साहाय्यस्य आवश्यकतााम् अनुभवति, तस्मै शिक्षास्वास्थ्यावसरादिभिः अग्रे गन्तुं उत्साहो दीयते। अद्यतनीयः सम्मानसमारोहः तेषां जनानां प्रति अस्माकं कृतज्ञतायाः अभिव्यक्तिः यैः समाजे प्रकाशः विस्तार्यते। अस्मिन् कार्यक्रमे शिक्षासंस्कृतिसमाजसेवाजनकल्याण इत्यादि बहुषु क्षेत्रेषु उल्लेखनीयं कार्यं कुर्वन्तः अनेकाः प्रतिष्ठिताः व्यक्तयः सम्मानिताः अभवन्।

सत्यनारायणः अवस्थिः अवदत् यत् संस्थायाः मूलमन्त्रः “परहितार्थं इदं शरीरम्” इति, एवं च अस्या संस्थायाः स्थापना वर्षे २०११ इत्यस्मिन् अभवत्। वञ्चितवर्गाणां कृते शिक्षा,स्वास्थ्य,पर्यावरण एवं सामाजिकचेतना इत्यादिषु अनेकानि प्रयत्नानि नेतृत्वेन कृतानि सन्ति। अस्मिन् अवसरे राज्यमन्त्री कपिलदेव अग्रवालः, लोकभारती इत्यस्य संरक्षकः बृजेन्द्रपालसिंहः, लखनऊविश्वविद्यालयस्य कुलपतिः प्रो. मनुका, ललितकला-अकादमी-उपाध्यक्षः गिरीशचन्द्रमिश्रः, प्रशान्तभाटियः च प्रमुखतया उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता