Enter your Email Address to subscribe to our newsletters

वैभवपूर्णजीवनं त्यक्त्वा युवकः अचिनोत् भक्तेः मार्गः
गुजरातम्, 17 नवंबरमासः (हि.स.)।
गुजरातस्य हीरानगरीसूरतनगरे प्रसिद्धः हीराउद्योगपति जतीनमहेता इति यस्य पुत्रः अष्टादशवर्षीयः जशमहेता नाम युवकः सः जगतः सर्वान् भौतिकसुखान् परित्यज्य संयमस्य कठिनमार्गे प्रवर्तितुं निर्णयं कृतवान। एतादृशी विरक्त्या त्यागस्य च विशिष्टा कथा अत्र प्रकाशिताभवत्।
जशमहतायाः जैनसंन्यासदीक्षायाः कार्यक्रमः त्रयोविंशतौ नवम्बरमासे सूरतनगरस्य पालप्रदेशे भव्यरूपेण आयोजितः भविष्यति। सः भक्तियोगाचार्य आचार्यभगवंतयशोविजयसूरीमहाराजसाहेबस्य सन्निधौ दीक्षां स्वीकृत्य संयममार्गे प्रवर्तिष्यते।
अष्टादशवर्षीयः जशमहेता हीराणां प्रति प्रेमयुक्तः महत्याः मूल्ययुक्तस्य आइफोनस्य क्रिकेटक्रीडायाः च अत्यन्तः आसक्तः आसीत्। बाल्यकालात् एव तस्य जीवने सर्वप्रकाराः सुविधाः सम्पन्नाः आसन्। पितुः हीराउद्योगे विशाला व्यापारसंपत् अस्ति अतः जशस्य सर्वे अभिलाषाः पूरिताः। तस्मै महमूल्यचष्माणि नवीनतमः आइफोने च अतीव प्रियं आसीत्।
तस्य परमं रागस्थानं आसीत् वास्तविकहीराभरणानि लक्जरी डायमण्ड् घडियन्त्रं च। तस्य समीपे द्विलक्षाधिकमूल्यम् एकं डायमण्ड् वॉच् आसीत् सः च डायमण्ड् सुवर्णचूडिकां तथा अन्यदागिने अपि बिभर्ति स्म।
यो मया सह न आगन्ता तस्मिन् मोहः किम्? : जशमहेता
स्वनिर्णयस्य विषये जशमहेता अवदत् — “आम् मया लक्जरी वॉच् आभूषणानि च अत्यन्तं प्रिया आसन्। किन्तु कदाचित् मम मनसि विचार उदभवत् — एते सर्वे वस्तवः मम सह कियन्तं कालं स्थास्यन्ति? अन्ते सर्वं विहाय एव गन्तव्यम्। या वस्तवः नित्यं मया सह न भविष्यन्ति तासु अतिरेकेण मोहः कुतः?”
अस्य जशस्य विचारस्य परिणामेन तस्य सम्पूर्णं परिवारं समुदायं च विस्मयस्थाने उपतिष्ठितम्। विश्वस्य हीरप्रकाशेन प्रसिद्धे अस्मिन् नगरे वैराग्यमार्गस्य ग्रहणं जनमानसस्य चर्चाविषयः जातम्।
---------------
हिन्दुस्थान समाचार