Enter your Email Address to subscribe to our newsletters


बाराबंकी 17 नवंबरमासः (हि.सं।
लोधेश्वरधाम्नि लोधेश्वरमहादेवं प्रति भव्यः महोत्सवः सोमवासरे पूर्णधार्मिकोत्साहेन पारम्परिकविधिविधानैः सह प्रतिष्ठितः। जिलाधिकारी शशांकत्रिपाठी विश्वकल्याणद्वारस्य उद्घाटनं कृत्वा लोधेश्वरमहादेवमन्दिरं प्राप्तः विधिवत् पूजार्चनां च कृतवान क्षेत्रस्य सुखसमृद्धिं जनकल्याणं च प्रार्थयत्।
सोमवासरे अपराह्णे प्राप्तः जिलाधिकारी वैदिकमन्त्राणां मध्ये विश्वकल्याणद्वारस्य उद्घाटनं यदा चकार तदा हरहरमहादेव इति घोषध्वनयः आकाशं पूरयामासुः। कलशं गृहीत्वा जिलाधिकारेण सह मुख्यविकासअधिकारी अन्नासुदन पूर्वविधायकः शरदवस्थी संयुक्तमजिस्ट्रेट् गुंजिताअग्रवालः पूर्वजिलाध्यक्षः शशांकः जिलाउपाध्यक्षः शेखरहयारण इत्येते सर्वे महादेवमन्दिरं गतवन्तः। आचार्यः आदित्यमहारााज इति पुजारी सर्वेभ्यः विधिविधानपूर्वकां पूजाम् अकरोत्।
मन्दिरप्राङ्गणे प्रभाते एव भक्तानां भीड् आसीत्। वैदिकमन्त्राणां उच्चारणम् पीएसीब्यान्डस्य नादः च सर्वं मनोहरं दृश्यताम्। मंचे जिलाधिकारेण दीपप्रज्वलनं कृत्वा सप्तदिनीयानां सांस्कृतिककार्यक्रमाणां उद्घाटनं कृतम्। उद्घाटनेन सह मंचे विविधलोककलाकारैः भजनानि नृत्यानि क्षेत्रीयलोककलाः च मनोहारिण्यः प्रस्तूताः। सर्वसप्ताहे महोत्सवे भजन्सन्ध्या लोकगीतं नृत्यं आकर्षकाः झाकिन्यः सामाजिकजागरूकतासम्बद्धाः कार्यक्रमाश्च भविष्यन्ति।
महोत्सवे सुरक्षा व्यवस्थायै विशेषं प्रबन्धनं कृतम् अस्ति। महादेवं द्रष्टुं आगताः भक्ताः अवदन् यत् लोधेश्वरमहादेवमहोत्सवः तेषां श्रद्धायाः प्रमुखः पर्वः यस्य माध्यमेन आध्यात्मिकी ऊर्जा सांस्कृतिकधरोहराश्च संरक्ष्यन्ते। मन्दिरपरिसरे दिवसभरं रमणीयता अभवत् श्रद्धालवः च महादेवस्य दर्शनं कृत्वा आत्मानं धन्यम् अमन्यन्त।
हिन्दुस्थान समाचार