Enter your Email Address to subscribe to our newsletters

जयपुरम्, 17 नवंबरमासः (हि . स.) अन्तिमदिने विश्वप्रसिद्धः आध्यात्मिकः नेता दि आर्ट् ऑफ् लिविङ्–संस्थापनकर्ता च गुरुदेवः श्रीश्रीरविशङ्करः दक्षिण-पश्चिमकमानादेशनिर्वाहिते विशेषसत्रे सप्तशक्तिसभागारे स्थिते जयपुरसैन्यकेंद्रे विशेषं संबोधनं प्रदत्तवान्। अस्मिन् कार्यक्रमे प्रायः षट्शतानि अधिकृतानां सैनिकानां च तेषां परिवारजनानां च उपस्थिति आसित्। कार्यक्रमः त्रयोदशसु सैन्यकेन्द्रेषु सहकालमेव लाइव-स्ट्रीम इति माध्यमेन प्रसारितः, येन दशसहस्रात् अधिकाः जनाः आभासरूपेण संलग्नाः भूत्वा गुरुदेवस्य विचारैः लाभान्विताः अभवन्।
सत्रस्य अवधौ गुरुदेवः उपस्थितजनान् सरलाभिः उपायभिः अल्पपरिमाणेन ध्यानसत्रे च मार्गदर्शितवान्, येन प्रतिभागिनः गम्भीरां विश्रान्तिम्, मानसिकस्पष्टताम्, तनावमोक्षणञ्च अनुभवितवन्तः। पश्चात् गुरुदेवः अवदत् यत् सशस्त्रबलस्य सदस्याः जीवनस्य द्वयोः समांतरप्रवाहयोः वासं कुर्वन्ति—एकः राष्ट्रे प्रति समर्पणस्य, द्वितीयः स्वार्थं स्वस्य च जीवनस्य—एतयोः संतुलनार्थं उच्चऊर्जा, मनसः स्पष्टता, आन्तरिकस्थैर्यं च अनिवार्यम्।
गुरुदेवः सुधर्शनक्रिया ध्यानाभ्यासौ च परिवर्तनकारीणां प्रभावानां विषये प्रकाशं कृत्वा अवदत् यत् वैज्ञानिकअनुसन्धानानि प्रतिरक्षाशक्तेः अत्यन्तवृद्धिं भावनात्मकदृढतां च दर्शयन्ति। सः यूक्रेन-अफगानिस्तानादि वैश्विकसङ्घर्षक्षेत्रेषु यत्र आर्ट् ऑफ् लिविङ्–स्वयंसेवकाः श्वासाधारिततन्त्राणि अवतारितवन्तः, येन तत्रस्थिताः प्रभावितसैनिकाः नागरिकाश्च स्थैर्यम्, सांत्वनां, नूतनामाशां च प्राप्तवन्तः—इति ददर्श।
भारतस्य आध्यात्मिकविरासतां स्मारयन् गुरुदेवः कबीरस्य, मीराबाय्याः, गुरु नानकदेवस्य च नामानि उद्धृत्य अवदत् यत् अध्यात्मनामकः विषयः अन्ततः स्वस्य अन्तरङ्गे स्थितेन प्रकाशेन संयोजनमेव—न केवलं दर्शनशास्त्रस्य चर्चामात्रम्, अपि तु व्यावहारिकः अनुभवार्थः। सः गुरु तेगबहादुरमहात्मनः आगामि 350-तमजयंती-समारोहस्यापि उल्लेखं कृतवान्, यस्य बलिदानं भारतस्य सांस्कृतिकात्मानं रक्षितवान्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani