Enter your Email Address to subscribe to our newsletters

जबलपुरम्, 18 नवम्बरमासः (हि.स.)। मध्यप्रदेश-राज्य-शिक्षाकेंद्रस्य निर्देशानुसार जबलपुरे स्थितेषु त्रिषष्टौ जनशिक्षाकेन्द्रेषु शासकीय-विद्यालयानां द्वितीयात् अष्टम-कक्ष्यापर्यन्तं विद्यार्थिनां कृते अद्य मङ्गलवासरे पूर्वाह्णे एकादशवादनात् मध्याह्नैकवादनपर्यन्तं ओलम्पियाड्-परीक्षायाः आयोजनं क्रियते। जनशिक्षाकेन्द्र-स्तरे आयोज्यमानस्य अस्य ओलम्पियाड्-परिक्षायाः अन्तर्गतं अष्टाविंशतिसहस्रं सप्तविंशतिशतं (२८,७२७) विद्यार्थिनः सहभागितां करिष्यन्ति। जिला-परियोजना-समन्वयकः योगेशः शर्मा अवदत् यत् ओलम्पियाड्-परिक्षा कक्षा-द्वितीय-तृतीययोः, कक्षा-चतुर्थ-पञ्चमयोः तथा कक्षा-षष्ठी-आष्टमीस्तरस्य विद्यार्थिनां कृते आयोजितुं निश्चितम्। अस्याः परिक्षायाः ओएमआर-शीट्-आधारित-रूपम्, येन बालकानाम् आद्यस्तरात् एव प्रतियोगी-परिक्षाणां अभ्यासः सुकरो भवति।
जिला-परियोजना-समन्वयकेन उक्तम्— कक्षा-द्वितीय-तृतीययोः विद्यार्थिनां कृते परिक्षा हिन्दी, गणित तथा आङ्ग्लभाषा-विषयानाम् आधारे भविष्यति। एवमेव कक्षा-चतुर्थ-पञ्चमयोः विद्यार्थिनां कृते हिन्दी, गणित, आङ्ग्लभाषा तथा परिवेश-विज्ञान-विषयाः, तथा कक्षा-षष्ठी-आष्टमीस्तरस्य विद्यार्थिनां कृते सामान्यज्ञानम्, हिन्दी, संस्कृतम्, गणितम्, सामाजिक-विज्ञानम् तथा आङ्ग्लभाषा एते विषयाः निर्धारिताः। जनपदपरियोजना-समन्वयकस्य वचनम्— जनशिक्षाकेंद्र-स्तरीय-ओलम्पियाड्-परिक्षायां चयनिताः छात्रछात्रिकाः जिला-स्तरीय-ओलम्पियाड्-परिक्षायां सहभागिता करिष्यन्ति। अस्य परिक्षा-आयोजनस्य उद्देश्यः शासकीय-विद्यालयानां छात्रछात्रिकासु तार्किकशक्ति, सामाजिकवैज्ञानिक-दृष्टिकोणम् च विकसितुं, तान् च प्रतियोगी-परिक्षासु सज्जान् कर्तुम् अस्ति। ओलम्पियाड्-परिक्षायाः सर्वाः आवश्यकाः सिद्धताः सम्पन्नाः। गोपनीय-सामग्री जनपद-स्तरात् विकासखण्डेषु, तेषां विकासखण्डेभ्यः च जनशिक्षाकेन्द्रेषु विधिवत् वितरिता।
हिन्दुस्थान समाचार / अंशु गुप्ता