Enter your Email Address to subscribe to our newsletters

सतना, 18 नवंबरमासः (हि.स.)। केन्द्रीय-जनजाति-कार्य-राज्यमन्त्री दुर्गादास उइके तथा मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः अद्य सतना-जनपदस्य मझगवां-विकासखण्डस्य बाङ्का ग्रामपञ्चायत्यां भगवतः बिरसा-मुण्डस्य प्रतिमायाः अनावरण-समारोहे सहभागिनौ भविष्यतः।
नियत-कार्यक्रमानुसारम् उइके-पटेलौ प्रातः १० वादने सतना-विमानस्थानं आगमिष्यतः। ततः मार्गेण बाङ्का-ग्रामं प्रति प्रयान्तौ १०।४० वादने कार्यक्रम-स्थलं प्राप्स्यतः। केन्द्रीय-राज्यमन्त्री राज्यपालौ च प्रातः ११।०० वादनात् द्विप्रहरस्य १२।५० वादनपर्यन्तम् अनावरण-समारोहे भागं ग्रहीष्यतः। अनन्तरं १२।५० वादनात् १।५० वादनपर्यन्तं कालः आरक्षितः भविष्यति। ततः उइके-पटेलौ वाहनमार्गेण सतनां प्रति प्रयास्यतः। उभौ अपि २।४५ वादने विमानमार्गेण भोपालं प्रति प्रस्थानं करिष्यतः।
हिन्दुस्थान समाचार / अंशु गुप्ता