Enter your Email Address to subscribe to our newsletters

जयपुरम् 18 नवंबरमासः (हि.स.)। राजस्थान-आरक्षक-अकादम्यां २१ नवम्बर-दिने राज्य-स्तरीय-आरक्षक-सम्मेलनम् आयोजितं भविष्यति। एतत् आयोजनं आरक्षक-महानिदेशक-महानिरीक्षक-सम্মेलनम् 2024 इत्यस्य बिन्दु-क्रमाङ्क ७१ इति निर्देशस्य अनुपालनरूपेण क्रियते। सम्मेलनस्य मुख्योद्देश्यः केन्द्र-स्तरे सम्पन्ने डीजीपी–आईजीपी-सम्मेलने प्राप्तानां सुझावानां विचारः करणम्, तथा राज्य-आरक्षक-विभागेन विविधानि कार्यक्षेत्राणि सम्बद्धानि कार्याणि यथाक्रमं प्रगतिम् उपलभमानानि वा न वा इति समीक्षा करणं च।
एतत् सम्मेलनम् ऑफलाइन–ऑनलाइन उभय-प्रकारेण आयोजितं भविष्यति, येन राज्यस्य सर्वे अधिकारी अवरोधं विना अस्मिन् सम्मिलितुं शक्नुयुः। जयपुर-मुख्यालये कार्यरताः सर्वे आईपीएस–आरपीएस-अधिकारी व्यक्तिगततया उपस्थिताः भविष्यन्ति, यदा विविध-रेज्-प्रदेशेषु, जिलेषु च नियुक्ताः आईजी, डीआईजी, एसपी, अतिरिक्त-एसपी तथा उप-एसपी-स्तरस्य अधिकारी ऑनलाइन-माध्यमेन योजिताः भविष्यन्ति।
उद्घाटन-सत्रस्य मुख्य-अतिथिः आरक्षक-महानिदेशकः राजीव-शर्मा भविष्यति। सम्मेलनस्य अन्तर्गते केन्द्र-सरकारस्य डीजीपी–आईजीपी-सम्मेलनम् 2024 मध्ये प्रस्तुतानि प्रमुख-सुझावानि विस्तृततया चर्चितानि भविष्यन्ति। तेन सह राजस्थान-आरक्षक-विभागेन सुरक्षा-व्यवस्था, कानून-व्यवस्था, तन्त्रज्ञान-उपयोगः, प्रशासनिक-सुधाराः च एतेषां क्षेत्राणां विषये क्रियमाणानां प्रयासानां समीक्षा अपि करिष्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता