Enter your Email Address to subscribe to our newsletters

– राउरकेलाइस्पातप्रकल्पस्य विस्तारविषये विचारविमर्शः जातः
भुवनेश्वरम्, 19 नवम्बरमासः (हि.स.)। केंद्रीयभार-उद्योग-इस्पातमन्त्री एच. डी. कुमारस्वामी बुधवासरे लोकसेवाभवने ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी इत्यनेन सह साक्षात्कारः कृतवान्। अस्मिन् समये राउरकेलास्टील्प्लाण्ट (आरएसपी) इत्यस्य आधुनिकीकरणम्, विस्तारश्च विषये विस्तीर्णा चर्चा अभवत्। अस्मिन् सभायां केंद्रीयजनजातिकार्यस्य राज्यमन्त्री जुएल्ओरामः अपि उपस्थितः आसीत्।
सभायां निवेदितं यत् प्रकल्पस्य आधुनिकीकरणकार्यं प्रगतिपथे अस्ति तथा इदानीं विस्तारस्य कृते आवश्यकभूमि-अधिग्रहणप्रक्रियायाः शीघ्रीकरणम् अपेक्षितम्।
मुख्यमन्त्राऽब्रवीत् यत् आरएसपी विस्तारः राज्यस्य आर्थिकप्रगतेः रोजगारसृजनस्य च कृते अत्यन्तं महत्वपूर्णः अस्ति।सः अपि स्पष्टीकृतवान् यत् स्थानीयजनानां समस्याः समाधानं प्राप्य, तेषां सहमत्या एव भूमि-अधिग्रहणम् करिष्यते।
सभायां निर्णयः कृतः यत् उच्चस्तरीया समिति स्थापितव्या, यस्याः अध्यक्षः अतिरिक्तमुख्यसचिवः भविष्यति। एषा समिति स्थानीयजनैः सह संवादं कृत्वा सर्वेषां विषयाणां समाधानं सुनिश्चितं करिष्यति।
केंद्रीयमन्त्री कुमारस्वामी मुख्यमन्त्रिणः, मन्त्रिणः जुएलओरामस्य च, विस्तारपरियोजनायाः प्रगत्यर्थं दत्तसहाय्यस्य कृते आभारं व्याहरत्। सभायां राउरकेलायां विमानपत्तनस्य स्थापने कृते भूमिप्रदानं सहिताः अन्येऽपि महत्वपूर्णाः विषयाः विचारिताः।
अस्यां सभायां मुख्यसचिवः मनोजआहूजा, इस्पातखननविभागस्य अतिरिक्तमुख्यसचिवः सुरेन्द्रकुमारः, राजस्वविभागस्य अतिरिक्तमुख्यसचिवः देवरञ्जनकुमारसिंहः, उद्योगविभागस्य अतिरिक्तमुख्यसचिवः हेमन्तशर्मा, मुख्यमन्त्रिणः प्रमुखसचिवः शाश्वतमिश्रः, केंद्रीयइस्पातसचिवः सन्दीपपोंडरिकः, सेलाध्यक्षः अमरेन्दुप्रकाशः, तथा सेलसंस्थायाः वरिष्ठाधिकृताः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता