रायपुरम् - ७३,८६८ निर्माणश्रमिकेभ्यः विविधयोजनानां वित्तराशिः डी.बी.टी. माध्यमेन वितरिता
- श्रम-मन्त्री देवाङ्गनः श्रमिकानां अधिकोषेषु डी.बी.टी. माध्यमेन राशि-अन्तरणं कृतवान्। रायपुरम् 20 नवंबरमासः (हि.स.)। छत्तीसगढ-भवन-अन्य-सन्निर्माण-कर्मकार-कल्याण-मण्डलस्य सञ्चालक-मण्डल-सभायां अद्य गुरुवासरे श्रम-मन्त्री लखन-लाल-देवाङ्गनः तथा छत्त
श्रम मंत्री  देवांगन  श्रमिको के खाते में डीबीटी के जरिये राशि अंतरित करते


- श्रम-मन्त्री देवाङ्गनः श्रमिकानां अधिकोषेषु डी.बी.टी. माध्यमेन राशि-अन्तरणं कृतवान्।

रायपुरम् 20 नवंबरमासः (हि.स.)। छत्तीसगढ-भवन-अन्य-सन्निर्माण-कर्मकार-कल्याण-मण्डलस्य सञ्चालक-मण्डल-सभायां अद्य गुरुवासरे श्रम-मन्त्री लखन-लाल-देवाङ्गनः तथा छत्तीसगढ-भवन-अन्य-सन्निर्माण-कर्मकार-कल्याण-मण्डलस्य अध्यक्षः डॉ. रामप्रताप-सिंह इत्येते षोडशसु विभिन्नेषु कल्याणकारी-योजनासु अन्तर्गतं समग्रतया त्रिसप्ततिसहस्र-अष्टशत्-अष्टषष्टिः (७३८६८) निर्माण-श्रमिकेभ्यः तेषां च परिवार-जनाभ्यः पञ्चविंशतिः कोटि-पञ्चषष्टि-लक्ष-नवतिः सहस्र-चत्वारि शतानि (₹ 25,65,90,402) रूप्यकाणि डी.बी.टी. माध्यमेन लाभार्थीनां बैंक-खातेषु प्रत्यक्षम् अन्तारितवन्तौ। अस्मिन् अवसरि सचिव-सह-श्रमायुक्तः हिम-शिखर-गुप्तः, छत्तीसगढ-भवन-अन्य-सन्निर्माण-कर्मकार-कल्याण-मण्डलस्य सचिवः गिरिश-रामटेके च उपस्थिताः आसन्।

अस्य पारदर्शी-प्रक्रियायाः फलतः न केवलं श्रमिकानां त्वरितं लाभः संपद्यते स्म, अपि तु योजनानां क्रियान्वयने पारदर्शिता दक्षता च सुनिश्चितेते। विभिन्न-योजनाः अन्तर्गताः लाभार्थिभ्यः सहायता प्रदत्ता अस्ति। दीदी-ई-रिक्शा-सहायता-योजना अन्तर्गतं २३ लाभार्थिभ्यः समग्रतया २३ लक्ष-रूप्यकाणि दत्तानि। निर्माण-श्रमिकानां बालकेभ्यः उत्कृष्ट-खेल-प्रोत्साहन-योजना अन्तर्गतं सप्त बालकेभ्यः ३ लक्ष-पञ्च सहस्र-रूप्यकाणि प्रदत्तानि। निर्माण-श्रमिकानां बालकेभ्यः निःशुल्क-गणवेश-पुस्तक-कापी-सहायता-राशि-योजना अन्तर्गतं ३१७५४ बालकेभ्यः ४ कोटिः १८ लक्ष ६२ सहस्र-रूप्यकाणि वितीरितानि। मिनीमाता-महतारी- जतन-योजना अन्तर्गतं २४३६ हितग्राहिभ्यः ४ कोटयः ८७ लक्ष २० सहस्र-रूप्यकाणि दत्तानि। तथैव मुख्यमंत्री-निर्माण-मजदूर-सुरक्षा-उपकरण-सहायता-योजना अन्तर्गतं १०८० श्रमिकेभ्यः १६ लक्ष २० सहस्ररूप्यकाणि प्रदत्तानि।

एवमेव मुख्यमंत्री-निर्माण-श्रमिक-आवाससहायतायोजना अन्तर्गतं ४७ लाभार्थिभ्यः ४७ लक्ष-रूप्यकाणि अनुमोदितानि। मुख्यमंत्री-निर्माण-श्रमिक-दीर्घायु-सहायता-योजना अन्तर्गतं द्वाभ्यां लाभार्थिभ्यां ४० सहस्र-रूप्यकाणि दत्तानि। मुख्यमंत्री-निर्माण-श्रमिक-मृत्यु-दिव्याङ्ग-सहायता-योजना अन्तर्गतं २२० श्रमिकेभ्यः समग्रतया २ कोटयः २० लक्ष-रूप्यकाणि प्राप्तानि। मुख्यमंत्री-नोनीबाबूमेधावीशिक्षा-सहायता-योजना अन्तर्गतं ६५५ विद्यार्थिभ्यः ५५ लक्षम् १ सहस्र १७६ रूप्यकाणि प्रदत्तानि।

मुख्यमंत्री-नोनी-सशक्तिकरणसहायतायोजना माध्यमेन २४६१ हितग्राहिभ्यः ४ कोटयः ९२ लक्ष २० सहस्र-रूप्यकाणि वितीरितानि। मुख्यमंत्री-नौनिहाल-छात्रवृत्ति-योजना अन्तर्गतं ३२२४८ बालकेभ्यः ६ कोटयः ४७ लक्ष ६१ सहस्र ५०० रूप्यकाणि प्रदत्तानि। मुख्यमंत्री-श्रमिक-औजार-सहायता-योजना अन्तर्गतं १९६१ श्रमिकेभ्यः ६७ लक्ष ८२ सहस्र २३८ रूप्यकाणि लाभाय प्राप्तानि। तदनन्तरं मुख्यमंत्री-श्रमिक-

सियानसहायता-योजना अन्तर्गतं ३२६ श्रमिकेभ्यः ६५ लक्ष २० सहस्र-रूप्यकाणि दत्तानि। मुख्यमंत्री-सायकलसहायतायोजना अन्तर्गतं ५८५ लाभार्थिभ्यः २१ लक्ष ६६ सहस्र ५८८ रूप्यकाणि प्रदत्तानि। तथा मुख्यमंत्री-सिलाई-मशीन-सहायता-योजना अन्तर्गतं १ लाभार्थिने ७९०० रूप्यकाणि दत्तानि। अन्ते मुख्यमंत्री-निर्माण-श्रमिक-पेंशन-सहायता-योजना अन्तर्गतं ५६ श्रमिकेभ्यः ८४ सहस्र-रूप्यकाणि सहायता प्रदत्ता।

श्रम-मन्त्री लखन-लाल-देवाङ्गनः अध्यक्षः बी.ओ.सी.डब्ल्यू. डॉ. रामप्रतापसिंह च अवदताम्—छत्तीसगढ-सरकार श्रमिकाणां कल्याणाय प्रतिबद्धा अस्ति। मुख्यमंत्री-विष्णुदेव-साय-नेतृत्वे योजनानां लाभः सरल-पारदर्शी-प्रक्रियया प्रत्यक्षं लाभार्थीनाम् हस्तयोः प्राप्तुं प्रयासः अस्माकं प्राथमिकता। श्रम-विभागस्य एषा उपक्रमः रजतजयन्तीवर्षे श्रमिकवर्गं प्रति सर्वकारस्य संवेदनशीलता-समर्पणयोः प्रतीकः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता