Enter your Email Address to subscribe to our newsletters

रायपुरम् 20 नवंबरमासः (हि.स.)।
मुख्यनिर्वाचनपदाधिकर्याः कार्यालयेन छत्तीसगढ़प्रदेशे मतदाता सूच्याः विशेषगहनपुनरीक्षणस्य अन्तर्गतं गणनापत्रपूरणं कुर्वन्तः मतदातारः नागरिकाश्च प्रति अद्य गुरुवासरे महत्त्वपूर्णा सुरक्षा सूचना प्रकाशिताऽस्ति। अस्याः सूचनायाः उद्देश्यः जनान् स्वमोबाइलसंख्यायाः संभावितदुर्विनियोगात् ओटीपीआधारितधोखाधड्याश्च संरक्षणं प्रति सजागरान् कर्तुं भवति।
सावधान ओटीपी कदापि मा साझयत
विभागेन स्पष्टीकृतम् यत् एसआईआरपत्रपूरणकाले मोबाइलसंख्या दातुं पूर्णरूपेण सुरक्षितम् अस्ति तथापि नागरिकानाम् विशेषसतर्कता अपेक्ष्यते यतः केचित् साइबर अपराधिनः एतेनैव निमित्तेन ठगीं कर्तुं प्रयतन्ते।
मुख्यनिर्वाचनपदाधिकारी अवदत् यत् बीएलओमार्गेण एसआईआरपत्रपूरणे कस्यापि ओटीपीस्य आवश्यकता नास्ति। कोऽपि अधिकारी कर्मचारी वा बीएलओ यदा न कदापि भवन्तः प्रति ओटीपी याचते। यदि कश्चन जनः भवन्तं दूरवाणिना आहूय वदेत यत् “भवतः एसआईआरसंबद्धमोबाइलसंख्यायां प्राप्तः ओटीपी अस्मभ्यं दत्तव्यः” इति तर्हि तं व्यक्तिं तत्क्षणमेव निवारयन्तु।
मुख्यनिर्वाचनपदाधिकारी पुनरुक्तवान् यत् तस्मै व्यक्तये स्पष्टरूपेण वदन्तु यत् अहं कार्यालयं गत्वा वक्तुम् इच्छामि अथवा स्वस्य बीएलओ इत्यनेन सह संपर्कं करिष्यामि इति। यदि कश्चन व्यक्ति ओटीपीदाने कृते दवाबं करोति धमयति वा पुनः पुनरावर्तते तर्हि तत्क्षणमेव समीपस्थे पुलिसथाने सूचना दातव्या।
विभिन्नराज्यानां पुलिसविभागैः अपि उद्घोषितम् यत् एसआईआरपत्रपूरणप्रक्रियायाः नाम्नि नूतनं प्रकारम् ऑनलाइनधोखाधड्यः प्रचलति अतः नागरिकैः कदापि स्वफोनमध्ये प्राप्तः वनटाइमपासवर्ड अज्ञातेन व्यक्तिना सह अवगमनीयः न इति।
हिन्दुस्थान समाचार