भारतरत्नः सी. वी. रमनः भारतस्य वैज्ञानिकचेतनां प्रबोधितवान्– मुख्यमन्त्री
गुवाहाटी, 21 नवंबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा महोदयः भारतरत्न-पुरस्कृतस्य डॉ. सी. वी. रमनस्य जयन्त्यवसरे तान् नमस्कृत्य अवदत् यत् तैः भारतस्य वैज्ञानिकचेतना नूतनदिशा प्रदत्ता, प्रकाशस्य रहस्यानि अवगन्तुं च विश्वस्य सम
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 21 नवंबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा महोदयः भारतरत्न-पुरस्कृतस्य डॉ. सी. वी. रमनस्य जयन्त्यवसरे तान् नमस्कृत्य अवदत् यत् तैः भारतस्य वैज्ञानिकचेतना नूतनदिशा प्रदत्ता, प्रकाशस्य रहस्यानि अवगन्तुं च विश्वस्य सम्मुखे अद्वितीयं योगदानं प्रस्तुतम्।

मुख्यमन्त्रिणा स्वस्य सामाजिकसञ्चार-संदेशे उक्तं यत् डॉ. रमनस्य प्रतिभा च अनुसन्धानेषु तेषां कृतयः न केवलं राष्ट्रस्य गौरवपूर्णां वैज्ञानिकपरम्परां सुदृढीकरोति, अपितु नवपीढीम् अनवरतं जिज्ञासु-भावे स्थितुं, अनुसन्धानमार्गे चरितुं, नवोन्मेषस्य पन्थानम् अनुगन्तुं च प्रेरयति। तेन उक्तं यत् डॉ. रमनस्य जीवनम् भारतस्य ज्ञानपरम्परायाः वैज्ञानिकोत्कर्षस्य च शाश्वतं प्रतीकम् अस्ति, यत् भविष्यत्प्रजाः सर्वदा प्रेरयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता