कृषि मंत्री पॉलीहाउस प्रशिक्षण दलं पंतनगर विश्वविद्यालयनिमित्तं हरितध्वजं दर्शयित्वा प्रस्थितम्
देहरादूनम्, 23 नवंबरमासः (हि.स.)।प्रदेशस्य कृषिमन्त्री गणेशजोशी महोदयः रविवासरे हाथीबडकलास्थिते शिविरकार्यालयात् नाबार्ड योजनान्तर्गत स्थापितानां पॉलीहाउस सम्बन्धितानां पञ्चदिवसीय प्रशिक्षणार्थं देहरादूनजनपदस्य चयनितानां अष्टाविंशति कृषकानां दलं गो
देहरादून के कृषक दल को गोविंद बल्लभ पंतनगर विश्वविद्यालय के लिए रवाना करते कृषि मंत्री।


देहरादूनम्, 23 नवंबरमासः (हि.स.)।प्रदेशस्य कृषिमन्त्री गणेशजोशी महोदयः रविवासरे हाथीबडकलास्थिते शिविरकार्यालयात् नाबार्ड योजनान्तर्गत स्थापितानां पॉलीहाउस सम्बन्धितानां पञ्चदिवसीय प्रशिक्षणार्थं देहरादूनजनपदस्य चयनितानां अष्टाविंशति कृषकानां दलं गोविन्दबल्लभपन्तनगरविद्यापीठं प्रति हरितध्वजं प्रदर्श्य प्रेषितवन्तः।

कृषिमन्त्रिणा उक्तं यत् कृषकानां आयं द्विगुणीं कर्तुं राज्यसरकारा निरन्तरं कार्यं करोतिति। नाबार्ड संस्थामार्गेण प्रदेशे पञ्चलक्षतमे पॉलीहाउस स्थापयितुं लक्ष्यम् निर्धारितम्, यस्य प्रभावेन कृषि–क्षेत्रे महान् परिवर्तनं दृश्येत इति ते अवदन्। तेऽपि अकथयन् यत् प्रदेशे पलायननिरोधे कृषि बागवानी च अत्यन्तं महत्त्वपूर्णं योगदानं वहतः। राज्यस्य ग्राम्यप्रदेशेषु पुनरागतानां प्रवासिनां बहवः कृषिक्षेत्रे बागवानीक्षेत्रे च स्व–रोजगारस्य अवसरान् अन्विष्यन्ति। अतः तान् कृषि–बागवानी–आधारित–आजीविकया सम्बध्य आत्मनिर्भरान् कर्तुं सरकारा सततम् प्रयासरताऽस्ति।

ते अवदन् यत् प्रशिक्षणार्थं प्रेष्यमाणं एतत् अष्टाविंशति कृषकानां दलं पन्तनगर–विद्यापीठे उन्नत–प्रविधीनां प्रशिक्षणम् अधिगम्य मास्टर–ट्रेनर रूपेण सज्जं भविष्यति, येन ते अनन्तरं ग्राम्यप्रदेशेषु अन्यान् कृषकानपि प्रशिक्षयिष्यन्ति। पॉलीहाउस–प्रविधिना कृषकानां आयः उल्लेखनीयरीत्या वर्धयितुं शक्यते इति मन्त्रीजोशी महोदयः उक्तवन्तः। नियन्त्रित–वातावरणे उत्पादितानां शाक–फल–वर्गस्य उत्तमा उत्पादन–क्षमता उच्चा गुणवत्ता च सन्ति, येन कारणेन बाजारे द्विगुणं त्रिगुणं वा मूल्यं लभ्यते इति ते अवदन्। पॉलीहाउसस्य सञ्चालन–रक्षणार्थं विशेषज्ञैः निरन्तरं तांत्रिकसहाय्यम् अपि प्रदीयते, येन उत्पादनवृद्धिः सुनिश्चितुं शक्यते।

मन्त्रिणा व्यक्तं यत् एषा पहल न केवलं कृषकानां आर्थिकस्थिति बलीयसी भविष्यति, अपि तु युवान् कृषिउद्यमितया सम्बध्य ग्राम्यप्रदेशेषु नूतनान् रोजगार–अवसरान् अपि उत्पादयिष्यति। अस्मिन् अवसरि देहरादूनस्य मुख्य–उद्यान–अधिकारी डाक्टर दिनेशकुमारतिवारी महोदयः अन्ये बहवः कृषकाः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार