Enter your Email Address to subscribe to our newsletters

अररिया, 23 नवम्बरमासः (हि.स.)।जनपदस्य सिमराहा-बाजार-प्रदेश स्थिते काली-मन्दिरे मातुः कालीदेव्याः प्रतिमास्थापनाया नवमवर्षगाठस्य अवसरि रविवासरे शोभायात्रा-जलूसः निर्गतः, यस्मिन् मातुः कालीदेव्याः भक्ताः ग्रामवासिनश्च बहुसंख्येन सहभागी अभवन्। गाज-बाज-सहितं निष्क्रान्ते शोभायात्रा-जलूसे शताधिकाः नारीणां पुरुषाणां च श्रद्धालवः भागिनः आसन्।
शोभायात्रायां विधिव्यवस्थायाः पालनार्थं सिमराहा-थानाध्यक्षः प्रेमकुमार-भारती सदलबलसहितः सक्रियः आसीत्। अवसरविशेषे भाजपा-ओबीसी-मोर्चस्य जिलाध्यक्षः दिलीप-पटेलः, नवरत्न-गुप्तः, सन्तोष-गुप्तः, संजय-गुप्तः, मुखियाप्रतिनिधिः आफ्ताब-आलम्, चुन्ना, भोला-गुप्तः, मनोज-गुप्तः, डब्लू-भगत, छोटू-भगत, विनय-गुप्तः, अखिलेश-यादवः, पुनीत-यादवः, शिवजी-स्वर्णकारः, बिनोद-गुप्तः, ललन-गुप्तः, जितेन्द्र-गुप्तः, पिंकू-गुप्तः, विरेन्द्र-गुप्तः, रामकिशुन-गुप्तः, एवं बहुसंख्यकयुवकाः महिलाश्च बाजारे उपस्थिताः आसन्।
हिन्दुस्थान समाचार