Enter your Email Address to subscribe to our newsletters

भाेपालम्, 23 नवंबरमासः (हि.स.)।अद्य राष्ट्रियकैडेट्कोर् (एनसीसी) ७८ वर्षाणि पूर्णानि सन्ति। १९४८ तमे वर्षे स्थापितं एनसीसी विश्वस्य बृहत्तमं वर्दीधारी युवसङ्गठनम् अस्ति । राष्ट्रियकैडेट्कोर् भारते विश्वस्य बृहत्तमः युवासङ्गठनः अस्ति, यत्र १२ लक्षाधिकाः कैडेट्-जनाः सन्ति । भारतीयसेनायाः सह सम्बद्धं स्वैच्छिकं संस्था अस्ति । एनसीसी इत्यस्य शासनं शिक्षामन्त्रालयेन अपि भवति । एनसीसी-सङ्घस्य निर्माणं १९४८ तमे वर्षे जुलै-मासस्य १५ दिनाङ्के अभवत् तथापि प्रतिवर्षं नवम्बरमासस्य चतुर्थे रविवासरे एनसीसी-दिवसः आचर्यते, यतः १९४७ तमे वर्षे तस्मिन् दिने दिल्लीनगरे प्रथमानि यूनिटानि स्थापितानि आसन् ।मुख्यमन्त्री डॉ. मोहनयादवः एनसीसी-दिने शुभकामनाम् अयच्छत्
मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमेषु लिखितवान् यत् राष्ट्रीयकैडेटकोर् दिवसे हार्दिकं अभिवादनं शुभकामनाश्च। एकतायाः अनुशासनेन च राष्ट्रसेवायाः कृते स्वव्यक्तित्वस्य विकासाय छात्राणां प्रयत्नाः सर्वदा फलं ददतु। ते राष्ट्रस्य रक्षणार्थं साहसस्य, सामूहिकप्रयत्नस्य, परिश्रमस्य च मूल्यानि निरन्तरं प्रवर्तयन्तु।
---------------
हिन्दुस्थान समाचार