बिहारे मंत्री विजय चौधरी संभालितवान् कार्यभारं,वर्तमानयोजनानां प्रणालीनां च सुदृढ़ कार्यान्वयने अददाद्बलम्
-अस्माकं लक्ष्य कार्याणि ‘श्वः न, अद्य अधुना एव’ संपादनीयम् : विजय कुमार चौधरी पटना, 23 नवंबरमासः (हि.स.)। बिहारराज्ये जलसंसाधनविभागस्य मन्त्री विजयकुमारचौधरी महोदयः रविवासरे पदभारं ग्रहणाकरोत्। अस्मिन् अवसरि विभागस्य प्रधानसचिवः सन्तोषकुमारमल्लः
जल संसाधन मंत्री विजय चौधरी अपने विभाग का पदभार ग्रहण करते हुए


-अस्माकं लक्ष्य कार्याणि ‘श्वः न, अद्य अधुना एव’ संपादनीयम् : विजय कुमार चौधरी

पटना, 23 नवंबरमासः (हि.स.)। बिहारराज्ये जलसंसाधनविभागस्य मन्त्री विजयकुमारचौधरी महोदयः रविवासरे पदभारं ग्रहणाकरोत्। अस्मिन् अवसरि विभागस्य प्रधानसचिवः सन्तोषकुमारमल्लः वरिष्ठाधिकाऱ्यश्च तस्य पारम्परिकं स्वागतं कृतवन्तः।

पदभारग्रहणानन्तरं जलसंसाधनमन्त्रिणा प्रधानसचिवेन वरिष्ठाधिकाऱिभिश्च सह सभा कृताभूत्। तस्मिन् समये सः स्पष्टरूपेण निर्दिष्टवान् यत् विभागस्य विशेषप्राथमिकता वर्तमानव्यवस्थां सुदृढां कर्तुं, पूर्वमेव कार्यान्वितेषु योजनासु पूर्णं प्रभावं सुनिश्चितुं च भवितुमर्हति।

विजयचौधरी महोदयः अवदत् यत् विभागस्य कार्यपद्धत्यां त्रिंशदधिकषष्टितमम् अनुपातं सुनिश्चितव्यं, इति। तस्य अर्थः— नूतनपहलासु नवोन्मेषेषु च ३५–४० प्रतिशतं ध्यानं दातव्यम्, तथा ६५ प्रतिशतं ऊर्जा मूलदायित्वस्य पालनं वर्तमानयोजनानां च सम्यक् सुदृढीकरणं कर्तुं विनियोजनीया।

मन्त्री अवदत्— रबीसस्य-कालः समीपे आगच्छति। अतः सुनिश्चितव्यं यत् सिंचनीयशक्तिर्विस्तारं प्राप्नुयात् तथा नहरस्य अन्तिमसीमान्तं यावत् निर्बाधं जलप्रवाहः प्राप्यते, यतः प्रत्येककृषकः पूर्णं लाभं प्राप्नुयात्। सः जलप्लावननियन्त्रणस्य प्रसङ्गेऽपि अवदत्— पूर्वनिर्मिततटबन्धाः सुदृढीकरणीयाः, तेषां क्षेत्रविस्तारः च कर्तव्यः, येन प्रदेशस्य सुरक्षा सुनिश्चितुं शक्यते।

सम्भाषणकाले यदा प्रमुखसचिवेन विभागे विशिष्टकार्येषु निर्मितानां टीमानां विषये उल्लेखः कृतः, तदा मन्त्री निर्देशितवान्— एतासु टीमासु युवा-अभियन्तॄणां अधिकतमं सहभागित्वं सुनिश्चितव्यम्। एतेन ते प्रशिक्षणं प्राप्स्यन्ति, विभागे च नूतना कार्यसंस्कृति ऊर्जा च संचारिते भविष्यतः। मन्त्री उक्तवान्— क्षेत्रीय-अभियन्तारः व्यक्तिगतरीत्या तटबन्धानां नहराणां च निरीक्षणं करोतु।

अन्ते मन्त्री अवदत् यद् अस्माकं लक्ष्यम् ‘श्वः न, अद्य एव, इदानीमेव’ इति भावेन कार्यसिद्धिः भवितुमर्हति। विभागस्य वास्तविकपरिचयः सुदृढसिंचाई-व्यवस्था प्रभावी-बाढ़-प्रबन्धनं च भविष्यति।

अस्मिन्नवसरे अभियन्ता-प्रमुखः (मुख्यालय) ब्रजेशमोहनः, अभियन्तृ-प्रमुखः (सिंचाई-सृजनम्) अवधेशकुमारः, अभियन्ता-प्रमुखः (बाढ़नियन्त्रणं जल-निस्सरणं च) वरुणकुमारः, संयुक्तसचिवः अजयकुमारः अन्ये च पदाधिकारिणः उपस्थिताः आसन्।---------------

हिन्दुस्थान समाचार