रायपुरम् : छत्तीसगढस्य 26 जपदेषु निर्मितानि भविष्यन्ति 12 सहस्रात् अधिकानि न्यून्मूल्यकानि गुणवत्तापूर्णानि आवासभवनानि - मुख्यमंत्री सायः
-शंकरनगर-बीटीआई-प्रांगणे त्रिदिवसीय राज्य-स्तरीय आवासमेला आरब्धः। रायपुरम् 24 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेवसायेन रविवास्यां सायं विलम्बेन रायपुरनगरस्य शङ्करनगरप्रदेशस्थिते बीटीआई-प्राङ्गणे आयोजिते त्रिदिवसीये राज्यस्तरीय-आव
मुख्यमंत्री  साय आवास मेले  का शुभारंभ करते हुए


-शंकरनगर-बीटीआई-प्रांगणे त्रिदिवसीय राज्य-स्तरीय आवासमेला आरब्धः।

रायपुरम् 24 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेवसायेन रविवास्यां सायं विलम्बेन रायपुरनगरस्य शङ्करनगरप्रदेशस्थिते बीटीआई-प्राङ्गणे आयोजिते त्रिदिवसीये राज्यस्तरीय-आवासमेलायां छत्तीसगढगृह-निर्माणमण्डलस्य 2060 कोटि-मूल्यस्य आवासीयपरियोजनानां शुभारम्भः कृतः। एताः पंचपञ्चाशत् परियोजनाः राज्यस्य षट्विंशत् जिलेषु आरब्धाः भविष्यन्ति, यासां माध्यमेन 12 सहस्राधिकानि किफायती गुणवत्तासम्पन्नानि गृहानि निर्मितानि भविष्यन्ति। अस्मिन् अवसरि मुख्यमन्त्रिणा गृह-निर्माण-मण्डलस्य एआई-चैटबॉट् तथा पोर्टलस्यापि शुभारम्भः कृतः। एतस्य माध्यमेन उपभोक्तृभ्यः गृह-निर्माण-मण्डलस्य आवासीय-परियोजनानां विषये सूचना सहजतया प्राप्तुं शक्यते।

अस्मिन् समारोहऽवसरे विधानसभाध्यक्षः डॉ. रमनसिंहः, आवास-पर्यावरण-मन्त्री ओ.पी. चौधरी, राजस्वमन्त्री टंकरामवर्मा, विधायकः मोतीलालसाहू, विधायकः पुरन्दरमिश्रः, विधायकः अनुजः शर्मा, गृह-निर्माण-मण्डलस्य अध्यक्षः अनुरागसिंहदेवः, चलचित्र-विकास-निगमस्य अध्यक्षापि मोनासेन इति बहवः नागरिकाः उपस्थिताः आसन्।

मुख्यमन्त्रिणा विष्णुदेवसायेन उक्तं यत् अद्यतनकाले छत्तीसगढ़-गृह-निर्माण-मण्डलस्य सङ्गठनं अतीव उत्तमं वर्तते। राज्यवासिभ्यः किफायती गुणवत्तासम्पन्नानि गृहानि प्रदातुं नवोन्मेषेन् सह मण्डलं अग्रे प्रवर्तमानम् अस्ति। छत्तीसगढ़-सर्वकारेण गृह-निर्माण-मण्डलस्य 790 कोटि-रूप्यकाणां ऋणं परिशोधितं, मण्डलं ऋणमुक्तं च कृतम्, यतः सः उत्तमार्थ-नीतिना कार्यं कर्तुं शक्नोति। तेन आवश्यकता-ग्रस्तेभ्यः तथा आवासहीनेभ्यः पक्कागृह-प्रदानार्थं प्रधानमन्त्रिणा नरेन्द्रमोदिना अधिष्ठिते भारत-देशे संचालितायाः प्रधानमन्त्रि-ग्रामीण-आवास-योजनायाः उल्लेखः कृतः। उक्तं च यत् द्विवर्षेषु छत्तीसगढ़-राज्ये अस्याः योजनायाः अन्तर्गतं 26 लक्षेभ्यः अधिकेभ्यः जनानां गृहेषु अनुमतिः प्रदत्ता। सर्वेषां गृहानि निर्मीयन्ते। पीएम-जनमन-योजनान्तर्गतं विशेष-प्रत्यग्रसर-जनजातिभ्यः 32 सहस्राणि तथा बस्तरप्रदेशे आत्मसमर्पित-नक्सलीनां नक्सल-पीडित-कुलानां च कृते 15 सहस्राणां आवासानां अनुमतिः दत्ता। मुख्यमन्त्रिणा तस्मिन् अवसरे राज्यस्तरीयआवास-मेलायां आवास-आरक्षणस्य प्रमाणपत्राणि, गृह-निर्माण-मण्डलस्य उपभोक्तृभ्यः आवास-चाभी, फ्री-होल्ड्-मकानस्य प्रमाणपत्रं च वितर्य तान् अभिनन्द्य शुभेच्छाः दत्ताः।

विधानसभाध्यक्षेन डॉ. रमनसिंहेन छत्तीसगढ़-गृह-निर्माणमण्डलस्य कार्याणां प्रशंसा कृत्वा उक्तं यत् मण्डलस्य अद्यतन-टीम उत्तमं कार्यं करोति। तेन उक्तं यत् आवास-मेलायाः सिद्धिं तस्मात् ज्ञातुं शक्यते यत् मेलस्य आरम्भात् एव मार्गेषु भीमः जामः जातः, यातायात् व्यवस्था न नियंत्रितुं शक्यते। राज्ये आवश्यकता-ग्रस्त-कुलानां प्रति आवास-प्रदानार्थं मुख्यमंत्री विष्णुदेवसायस्य नेतृत्वे यत् प्रयासाः क्रियन्ते तेषां प्रशंसा कृत्वा उक्तं यत् अस्मै प्रयोजनाय बजटे 14 सहस्र कोटि रूप्यकाणि निर्दिष्टानि। डॉ. सिंहेन उक्तं यत् गृह-निर्माण-मण्डलस्य सर्वाः परियोजनाः सर्वेषु जिलेषु उत्तमं प्रतिसादं प्राप्स्यन्ति।

उल्लेखनीयम् यत् बीटीआई-प्राङ्गणे एषः राज्य-स्तरीय-आवास-मेलः 25 नवम्बर-तारिखपर्यन्तं भविष्यति। मेलस्य प्रथमे दिने प्रभातकालात् एव मेलाक्षेत्रे गृह-निर्माण-मण्डलस्य आवासीय-परियोजनानां विषये सूचना प्राप्याम्, आवास-बुकिङकर्तुं च जनसमूहः उद्गतः आसीत्। शङ्करनगर-टर्निङ्-प्वाइण्ट् तस्मात् खम्हारडीह-मार्गपर्यन्तं यातायात्-जामः जातः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani