Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 24 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनी-नगर्यां आयोजितायां 69वीं राष्ट्रियशालेयमल्लखम्ब-प्रतियोगितायाम् उद्घाटन-अवसरे राज्यसभा-सांसदः उमेशनाथ-महाराज महोदयाः अवदन् यत् मल्लखम्बः भारतस्य प्राचीनतमा विद्या अस्ति। अस्य अभ्यासेन विद्यार्थिभ्यः ऊर्जा लभते इति। ते देशस्य अष्टादश-राज्येभ्यः आगतान् प्रायः पञ्चशतान् खिलाडीन् तेषां प्रशिक्षकांश्च शुभाशंसनं दत्तवन्तः।
लोकमान्य-तिलक-शिक्षा-परिसरे नीलगङ्गायां सोमवासरे आरब्धायाः अस्याः प्रतियोगितायाः उद्घाटन-कार्यक्रमस्य अतिथिः सांसदः अनिल-फिरोजिया महोदयः अवदत् यत् उज्जयिन्यां बालिका-मल्लखम्ब-अकादमी उद्घाटनीया आवश्यकम्। अस्य निमित्तम् ते केन्द्रिय-मन्त्रिणं मनसुख-माण्डव्यं प्रति निवेदनं कृतवन्तः इति च उक्तवन्तः। कार्यक्रमे विधायकः अनिल-जैन-कालूहेड़ा, म. प्र. मल्लखम्ब-संघस्य अध्यक्षः सोनू-गेहलोत्, भाजपा-नगर-अध्यक्षः संजय-अग्रवालः, कालिदास-अकादमी-निर्देशकः डॉ. गोविन्द-गन्धे इत्येतेऽपि सम्बोधने अकुर्वन्।
दीप-प्रज्वलनात् प्रारब्धे कार्यक्रमे क्रीडकाः पदसञ्चलनं कृत्वा अतिथीन् प्रति सलामी दत्तवन्तः। क्रीडीका वैशाली-भमौरी नाम्नी क्रीड़ा-भावनायाः शपथं सर्वेभ्यः प्रदत्तवती। कार्यक्रमे एस्-जी-एफ्-आइ (SGFI) संस्थायाः पर्यवेक्षकः कपिल-कान्तः, जे. डी. रमा-नाहटे, डी. ई. ओ. आनन्द-शर्मा, सहायक-संचालकः महेन्द्र-खत्री, ए. डी. पी. सी. गिरीश-तिवारी, जनपदक्रीड़ा-अधिकारीः पुरालालशर्मा इत्येतेऽपि उपस्थिताः आसन्। सञ्चालनं ज्योति-जैन नाम्ना कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता