गरियाबंदः - रायपुर संभाग आयुक्तः एसआईआर कार्याणाम्अकरोत् निरीक्षणम्
राजिम एवं बिन्द्रानवागढ़ विधानसभा क्षेत्रों के विभिन्न मतदान केंद्रों में पहुंचकर कार्यों का लिया जायजा
गरियाबंदः - रायपुर संभाग आयुक्तः एसआईआर कार्याणाम्अकरोत् निरीक्षणम्


मतदातृसूची अद्यतनीकर्तुं तत्र सम्यक्प्रविष्टभ्यश्च दत्तो निर्देशः

गरियाबंदम्, 24 नवंबरमासः (हि.स.)।रायपुरसंभागस्य आयुक्तः महादेवकावरे अद्य कलेक्टर् बी. एस्. उईके इत्यस्य उपस्थितौ राजिम् तथा बिन्द्रानवागढ् विधानसभा-क्षेत्रयोः विविधानि मतदानकेन्द्राणि सञ्चरित्वा विशेषगहनपुनरीक्षणकार्याणां (SIR) निरीक्षणं कृतवान्।

निरीक्षणकाले सः राजिम्- विधानसभा-अन्तर्गत राजिम्तहसीलकाचेर्याम्, कोप्रा–कोमा मतकेन्द्रयोः, तथा बिन्द्रानवागढ् विधानसभा-अन्तर्गत बारूका, तहसील् गरियाबन्द्, नगरपालिका-गरियाबन्द् इत्यादिषु मतदानकेन्द्रेषु मतदाता-सूच्याः अद्यतनकरणम् डिजिटाइजेशन-कार्यं च निरूप्य प्रगतिं समीक्ष्य अवोचत्।

आयुक्तेन कावरेण संबद्धान् बी.एल्.ओ.-अधिकारीन् च निर्देशाः दत्ताः— यत् SIR-अन्तर्गत गणनापत्रके सम्यक् पूर्णा च सूचना अंकितव्याः, कार्यं च नियतसमये समाप्तव्यम्। तेनेदमपि उक्तम्— यथार्थमतदातृणां नामावलिः योजनीया; त्रुटिपूर्णप्रविष्टयः संशोधनीयाः; अवशिष्टाः पात्रमतदातृणोऽपि सम्मिलनीयाः इति, तदर्थं ग्रामवासिभिः सह समुचितः सम्पर्कः संवादश्च स्थापनीयः।

तेन एतदपि निर्दिष्टं यत् मतदाता-सूचेः शुद्धता आगामिनिर्वाचनप्रक्रियायै अतिमहत्त्वपूर्णा, अतः प्रत्येकप्रविष्टेः शुद्धता निश्चीयताम्।

निरीक्षणसमये आयुक्तः दैनिकलक्ष्यं निर्धारित्य कार्यसमापनाय निर्देशान् दत्तवान् तथा उक्तवान्— यत् मतदाता-सूच्यद्यतनकार्ये कापि प्रमादता न कर्तव्या।

अस्मिन् अवसरे एस्.डी.एम् राजिम् विषालमहाऱाण, गरियाबन्द्तहसीलदारः चितेशदेवाङ्गन तथा स्थानीयजनप्रतिनिधयः अधिकारी–कर्मचारिणश्च उपस्थिताः।

---------------

हिन्दुस्थान समाचार