रायपुरम् - ३ दिसम्बरदिनाङ्के भारतदक्षिणाफ्रिकाक्रिकेट्क्रीडायाः चिटीका छात्राणां कृते ८०० रुप्यकेन उपलभ्यते
इण्डोरक्रीडाङ्गणे अद्य आरभ्यः चिटीकावितरणकक्षौ उद्घाटितौ।
नवा रायपुर के शहीद वीर नारायण सिंह अंतरराष्ट्रीय क्रिकेट स्टेडियम


रायपुरम्, २४ नवम्बरमासः (हि.स.)छत्तीसगढ़राजधानीप्रदेशे नवरायपुरस्थिते शहीद् वीरनारायणसिंह-अन्ताराष्ट्रीयक्रिकेट्-क्रीडाङ्गणे 3 दिसम्बरदिनाङ्के भारतदक्षिणाफ्रिका मध्ये भविष्यति द्वितीयः डे-नाइट् एकदिवसीयक्रिकेट्क्रीडाभिः विशेषं १५०० विद्यार्थिनां स्थानानि आरक्षितानि सन्ति। एतेषां चिटीकानि अद्य सोमवारेभ्यः उपलब्धानि भवन्ति। छत्तीसगढ़राज्यक्रिकेट्सङ्घेन बुद्धातालाबप्रदेशे स्थिते इण्डोरक्रीडाङ्गणे मध्ये २४ नवम्बरदिनाङ्के चिटीकावितरणकेन्द्रस्य व्यवस्था कृता। अत्र प्रातः १० वादनात् सायं ५ वादनपर्यन्तं विद्यार्थिनः स्वशैक्षणिकसंस्थायाः अद्यतनसत्रस्य वैधं परिचयपत्रं दर्शयित्वा ८०० रूप्यकेन केवला एकां चिटीकां प्राप्स्यन्ति।

क्रिकेट्सङ्घस्य निदेशकः बलदेवसिंहभाटिया अभ्यधात् यत् असुविधां परिहारयितुं विद्यार्थिभ्यः विशेषं द्वौ चिटीकावितरणकक्षौ विनियोजितौ। तदन्येभ्यः अन्तर्जालारक्षणकृतेषां कृते षट् पृथक्-चिटीकावितरणकेन्द्रा उद्घाटिताः। अन्तर्जालारक्षणः कृतवन्तः स्वस्य दूरवाणीतः बार्कोड् स्कैन् कृत्वा सहजतया चिटीका प्राप्स्यन्ति, तेषां परिचयपत्रस्य आवश्यकता न भविष्यति। बार्कोड्-स्कैननानन्तरं प्रमाणीकरणार्थं सम्भवतः ओटीपी भविष्यति, ततः भौतिकचिटीका अत्रैव दास्यन्ति।

तेन उक्तं यत् अत्र २४ नवम्बरतः २ दिसम्बरस्य सायन्तनपर्यन्तं अन्तर्जालचिटीका वितरणं भविष्यति। 3 दिसम्बरदिनाङ्के १.३० वादने आरभ्यमाणे अस्मिन् उच्च-उत्तेजनायुक्ते क्रीडामेलने दर्शकानां सहाय्यार्थं अन्ताराष्ट्रीयक्रीडाङ्गणे अपि कश्चन चिटीकावितरणकेंद्र-उद्घाटनाय योजना प्रवर्तमानाऽस्ति। विद्यार्थिनां कृते अपर-३ स्थानकं आरक्षितम्। चिटीकाग्रहणानन्तरं प्रावेशार्थं छात्राणां द्वार-संख्या ३ एव उपयोक्तव्या। भाटिया अवदत् यत् चिटीकाग्रहणार्थमिह आगच्छतां जनानां कृते पृथका यानस्थानव्यवस्था अपि कृताऽस्ति। व्यवस्थानियन्त्रणार्थं आरक्षककर्मचारिणः, निजरक्षासेवकाः तथा रक्षकाः इत्यादयः अपि नियुक्ताः।

हिन्दुस्थान समाचार / अंशु गुप्ता