Enter your Email Address to subscribe to our newsletters


देहरादूनम्, 25 नवंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंह-धामी प्रति मंगलवासरे हरिद्वारजनपदात् आगतः ईक्षुकृषकाः समुपेत्य पेरायीसत्रस्य 2025-26 वर्षस्य कृते गन्नस्य समर्थनमूल्यस्य घोषणां तथा अन्येषां मागाणां विषयकं ज्ञापनं समर्पितवन्तः। तस्मिन् अवसरे मुख्यमन्त्रिणा कृषकैः सह ईक्षुस्वादग्रहणं कृतम्। सहैव च कृषकमागाणां विषये सकारात्मकं आश्वासनं दत्तम्।
विधायकः आदेशचौहानः पूर्वमन्त्रिणः स्वामी यतीश्वरानन्दस्य च नेतृत्वे ईक्षुकृषकाः रायसी–बालावाली-सेतुपर्यन्तं तटबन्धस्य निर्माणम्, इकबालपुर–झबरेडा–भगवानपुरप्रदेशेषु शर्कराकर्कशालयाः स्थापने, इकबालपुर–झबरेडा प्रदेशे सिंचननहरनिर्माणं, डोईवालामिले कृषकाणां बकायभुगतानस्य निवारणम् इत्यादिकाःयाचनाः उपन्यस्यन्ते स्म। पेरायीसत्रस्य 2025-26 कृते राज्यपरामर्शितमूल्यस्य घोषितिः अपि कृषकैः याचिता।
मुख्यमन्त्रिणा सर्वाः मार्गाः श्रुत्वा ईक्षुमूल्यस्य सहित अन्येषां मागाणां विषये सकारात्मकं निर्णयं भविष्यति इति आश्वासनं दत्तम्। मुख्यमन्त्रिणा कृषकैः सह भूमौ उपविश्य गन्नस्य स्वादग्रहणं कृतम्। तस्मिन् अवसरि विधायकः प्रदीपबत्रा, जिलापंचायताध्यक्षा किरणचौधरी, पूर्वविधायकः संजयगुप्तः च उपस्थिताः आसन्।
-----------------
हिन्दुस्थान समाचार