Enter your Email Address to subscribe to our newsletters

भाेपालम्, 25 नवंबरमासः (हि.स.)। धर्मस्य, नैतिकमूल्यानां, आदर्शानां सिद्धान्तानां च रक्षणार्थं प्राणानाम् आहुतिं दत्तवन्तः सिखधर्मस्य नवमः गुरुः, “हिन्ददीचादर” इति विख्यातः श्रद्धेयः गुरुतेगबहादुरः—अस्य अद्य मङ्गलवासरे बलिदानदिवसः अस्ति। अस्मिन् अवसरि मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ॰ मोहनयादवेण तस्य स्मरणं कृत्वा विनम्रश्रद्धाञ्जलिः अर्पिता।
मुख्यमन्त्री डॉ॰ यादवः सोषल्-मीडिया ‘एक्स्’ इत्यत्र लेखं प्रकाशितवान्—“हिन्ददीचादरः, सिखानां नवमः गुरुः श्रद्धेयः गुरुः श्रीतेगबहादुरजी—अस्य ज्योतिज्योतिदिवसे कोटि-कोटि नमनं वन्दनं च करोमि। धर्मरक्षणे, मानवकल्याणे, सत्यसमर्पणेषु च युष्माकं जीवनम् दया–करुणा–प्रेम–परोपकारैः विश्वबन्धुत्वस्य मार्गं प्रदर्शयिष्यति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता