Enter your Email Address to subscribe to our newsletters

रायपुरम् 25 नवंबरमासः (हि.स.)।
छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः द्विदिवसीय-दिल्ली-प्रवासे वर्तमानः। स्वप्रवासस्य प्रथमदिने सोमवासरे सः भाजपा-राष्ट्रीय-अध्यक्षेन तथा केन्द्रीयमन्त्रिणा जे॰ पी॰ नड्डा इत्यनेन सह मेलनंकृतवान्, तथा केन्द्रीयमन्त्रिणा चिराग-पासवान् इत्यनेन अपि सः मिलितवान्।
अद्य प्रवासस्य द्वितीये दिने नवी-दिल्लीस्थिते निजी-होेटले “Investors Connect” कार्यक्रमे सः सहभागी भविष्यति। अद्य रात्रौ एव मुख्यमन्त्री सायः छत्तीसगढं पुनरागमिष्यति
।
---------------
हिन्दुस्थान समाचार