Enter your Email Address to subscribe to our newsletters

रायपुरम् 25 नवंबरमासः (हि.स.)।
छत्तीसगढराज्ये अर्हतातिथिः १ जनवरी २०२६ इति निर्धारितायाः मतदाता-पट्टिकानां विशेष-गहन-पुनरीक्षण-कार्यं (SIR) ४ नवम्बर २०२५ तारेखातः अत्यन्त-गम्भीरतया पारदर्शितया च प्रचलति। प्रदेशे पंजीकृत-मतदातॄणां गणना-प्रपत्रसङ्ग्रहणं तेषां डिजिटाइजेशन-कार्यं च BLO-कर्मचारिभिः शीघ्रतया प्रगत्यर्थं सम्पन्नं क्रियते।
छत्तीसगढ-निर्वाचन-आयोगात् प्राप्तसूचनां अनुसारं २४ नवम्बर २०२५ तारेखातः प्रदेशे प्रायः १ कोटि १२ लक्षाधिकानां गणना-प्रपत्राणां डिजिटाइजेशन-कार्यं समाप्तम्, यत् प्रदेशस्य २ कोटि १२ लक्ष ३० सहस्र ७३७ इति पंजीकृत-मतदातॄणां प्रायः ५३ प्रतिशतं भवति।
---------------
हिन्दुस्थान समाचार