संविधानदिवसे राज्यपालमुख्‍यमंत्रिणोः शुभकामनाः
जयपुरम्, 26 नवंबरमासः (हि.स.)।राज्यपालः हरिभाऊ बागडे मुख्यमन्त्री भजनलालः शर्मा च २६ नवम्बर् संविधान-दिवसस्य अवसरि अभिनन्दनानि शुभाशंसाः च प्रदत्तवन्तौ। राज्यपालः हरिभाऊ बागडे अवदत् यत् संविधानम् केवलं राष्ट्र-परिचालनस्य पवित्रग्रन्थः नास्ति, किन्
संविधान दिवस पर राज्यपाल और मुख्‍यमंत्री की बधाई और शुभकामनाएं


जयपुरम्, 26 नवंबरमासः (हि.स.)।राज्यपालः हरिभाऊ बागडे मुख्यमन्त्री भजनलालः शर्मा च २६ नवम्बर् संविधान-दिवसस्य अवसरि अभिनन्दनानि शुभाशंसाः च प्रदत्तवन्तौ।

राज्यपालः हरिभाऊ बागडे अवदत् यत् संविधानम् केवलं राष्ट्र-परिचालनस्य पवित्रग्रन्थः नास्ति, किन्तु भारतीय-संस्कृतेः प्रतिबिम्बम् अपि अस्ति। भारतीय-सम्विधानं विश्वस्य समस्त-लोकतन्त्राणां मध्ये उत्कृष्टतम-विवेचनरूपेण स्थितम् इति अपि ते उचिरे।

राज्यपालेन उक्तं यत् संविधानस्य उद्देशिका— “हम भारत के लोग”—इति वाक्यम् एव अस्माकं संप्रभुत्वस्य, लोकतान्त्रिक-मूल्यानां च साक्षात् दर्शनम्। संविधानस्य आस्था लोकतन्त्रात्मक-शासन-पद्धतौ एव विराजते। संविधानस्य मूलभावः मानवता इति, नागरिकानां मध्ये बन्धुतां, स्वाभिमानं, राष्ट्रैक्यम् इति च बोधयति। अस्माकं संविधानं देशस्य आर्थिक-सामाजिक-परिवर्तनस्य घोषणापत्रम् इति ते अवोचन्।

राज्यपालः अपि स्मारितवान् यत् संविधान-मसौदा-समित्याः अध्यक्षः बाबा साहेब डॉ. भीमरावः अम्बेडकरः संविधान-सभायां स्वस्य प्रथम-भाषणे “संवैधानिक-नैतिकता” इति पदं प्रयुक्तवान्, यत् अस्माकं गणतन्त्रस्य विशिष्ट-चिह्नम्। संविधान-दिवसे ते सर्वान् संविधान-संबद्धसंस्कृतिं अधिकारान् च सजगत्वेन अवलम्ब्य कर्तव्यपरायणतां प्रति प्रतिबद्धतां धारयितुं आह्वानं कृतवन्तः।

मुख्यमन्त्री भजनलालः शर्मा सोशल्-मीड़िया-माध्यमेन संविधान-दिवसस्य शुभाशंसाः दत्वा लिखितवान् यत् “अस्माकं संविधानं लोकतन्त्रस्य आत्मा अस्ति, यः नः अधिकारैः सह कर्तव्यानां पालनायापि प्रेरयति।” अद्य सर्वे राष्ट्रहितम् अग्रस्थं कृत्वा स्वीयान् नागरिक-कर्तव्यान् निष्ठया पालनं करिष्याम इति संकल्पः करणीयः इति ते उक्तवन्तः।

---------------

हिन्दुस्थान समाचार