ग्वालियरे संविधानदिवसे बालभवने जनापदस्तरीयकार्यक्रमः आयोजितः
- जनपदतः तहसील-,पंचायत- तथा ग्राम-स्तरपर्यन्त कार्यक्रमाः भविष्यन्ति, संविधानस्य उद्देशिकायाः सामूहिक-वाचनं भविष्यति। ग्वालियरम् ,26 नवंबरमासः (हि.स.)। मध्यमप्रदेशस्य ग्वालियर-लजनपदे अपि अद्य बुधवासरे संविधानदिवसस्य अवसरस्य निमित्तं व्यापक-स्तरे क
संविधान दिवस (प्रतीकात्मक तस्वीर)


- जनपदतः तहसील-,पंचायत- तथा ग्राम-स्तरपर्यन्त कार्यक्रमाः भविष्यन्ति, संविधानस्य उद्देशिकायाः सामूहिक-वाचनं भविष्यति।

ग्वालियरम् ,26 नवंबरमासः (हि.स.)। मध्यमप्रदेशस्य ग्वालियर-लजनपदे अपि अद्य बुधवासरे संविधानदिवसस्य अवसरस्य निमित्तं व्यापक-स्तरे कार्यक्रमाः आयोजिताः भविष्यन्ति। एतेषु कार्यक्रमेषु संविधानस्य उद्देशिकायाः सामूहिक-वाचनं करिष्यते। भारतीय-सम्विधानं केन्द्रीकृत्य परिचर्चाः अपि भविष्यन्ति। जनपद-स्तरीय-कार्यक्रमः बाल-भवने प्रातः एकादशवादने आयोजितः भविष्यति।

कलेक्टर् रुचिका-चौहान-नामधेया अवदत् यत् बाल-भवने संविधान-दिवस-निमित्तं आयोजिते जिल्ला-स्तरीय-कार्यक्रमे राज्य-शासनस्य दिशा-निर्देशानुसारं संविधानं केन्द्रीकृत्य प्रदर्शनी अपि स्थापितुं नियोजिता भविष्यति। अस्मिन् आयोजनस्य निमित्तं जनप्रतिनिधयः, समाजसेवकाः, स्वयंसेवी-संगठनानां प्रतिनिधयः, गणमान्या नागरिकाश्च आमंत्रिताः भविष्यन्ति। अस्मिन्नवसरे तहसील-, पंचायत-, ग्राम-स्तरेषु अपि कार्यक्रमाः आयोजिताः भविष्यन्ति, यत्र संविधानस्य उद्देशिकायाः सामूहिक-वाचनं करिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता