Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवंबरमासः (हि.स.)। संविधान-दिवसे प्रधानमन्त्रिणा नरेन्द्रमोदिना संविधान-निर्मातृभ्यः नमनं कृत्वा उक्तम् यत् तेषां दृष्टिकोणः दूरदर्शिता च विकसित-भारतस्य संकल्पाय दृढम् आधारं ददाति। भारतीय-सम्विधानं मानवीय-गरिमाम्, समानतां स्वतंत्रतां च सर्वोच्चं स्थानं ददाति। नागरिकान् अधिकारैः सह तेषां कर्तव्येषु अपि सजगान् भवितुं प्रेरणां ददाति।
प्रधानमन्त्री मोदिना सोशल्-मीडिया-मञ्चे ‘एक्स्’ इति नाम्नि द्वाभ्यां पृथक्-पोस्ट्-लेखने उच्यते यत् संविधानं राष्ट्रं मार्गे नियच्छति, नागरिककर्तव्याः सुदृढ-लोकतन्त्रस्य आधाराः सन्ति। ते संविधान-दिवसे सर्वेभ्यः नागरिकेभ्यः स्व-कर्तव्य-स्मरणं कृत्वा राष्ट्र-निर्माणे सक्रिय-योगदानस्य संकल्पग्रहणं कर्तुम् आह्वानं कृतवन्तः। उक्तवान् च यत् संविधानिक-मूल्य-आचरणस्य संकल्पस्य पुनरावृत्ति: कालस्य आवश्यकता अस्ति। अन्यस्मिन् पोस्ट्-लेखने प्रधानमन्त्रिणा उक्तम् यत् ते संविधानदिवसे देशवासिभ्यः पत्रं लिखितवन्तः। तस्मिन् पत्रे संविधानस्य महत्ता, मूल-कर्तव्येषु भूमिका, प्रथमवारं मतदातृ-भवनस्य हर्षः, नागरिक-दायित्वानां महत्वं च सम्बन्धिनि विषयेषु स्व-चिन्तनानि प्रकटितानि। एतानि मूल्यानि नागरिक-जीवनं सशक्तं कुर्वन्ति, विकसित-भारतस्य अभियानं च त्वरयन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता