Enter your Email Address to subscribe to our newsletters

नवदेहली, २६ नवम्बरमासः (हि.स.)। अधुना कतिपये क्षणानन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिनाः आभासरूपेण राष्ट्राय समर्पितं करिष्यते हैदराबादस्थितं सेफ्रान्-एअरक्राफ्ट्-इञ्जिन्-सर्विसेज्-इण्डिया (एसएईएसआई) इति सुविधाकेन्द्रम्। एतत् सुविधाकेन्द्रं हैदराबादस्य जीएमआर एयरोस्पेस औद्योगिकक्षेत्रे (एसईजेड) राजीवगान्धि-अन्ताराष्ट्रीयविमानपत्तने स्थितम् अस्ति। प्रधानमन्त्री प्रातः १० वादने चित्रमुद्रिकासम्मेलनमार्गेण अस्य केन्द्रस्य उद्घाटनं करिष्यति।
अधिकृतविज्ञप्तेः अनुसारम्—एसएईएसआई इति केन्द्रं तानि एलईएपी (लीडिंग एज एविएशन प्रोपल्शन) नामानि इञ्जिनानि, येन एअरबस् ए320एनईओ तथा बोइङ् 737 एमएएक्स इत्येतौ विमानौ शक्तिं प्राप्नुतः, तेषां कृते सफ्रान्संस्थायाः समर्पिता रक्षणमरम्मतधिसंस्कार (एमआरओ) सुविधा अस्ति। अस्य सुविधा–केन्द्रस्य स्थापना महत्त्वपूर्णा उपलब्धिः कथ्यते।।
एतत् न केवलं विश्वस्य महान्तमेषु विमानयन्त्र-एमआरओ-केन्द्रेषु गणनीयम्, किन्तु प्रथमवारम् एतत् अपि यत् कश्चन वैश्विकः यन्त्रः ओईएम (मूलोपकरणनिर्माता) भारतदेशे एव एमआरओ सुविधाकेन्द्रस्य संस्थापनं कृतवान्। 45000 वर्गमीट्र्प्रदेशे विस्तीर्णम् एतत् अत्याधुनिकं केन्द्रं आरम्भे १३०० कोटीरूप्यकाणां निवेशेन विकसितम्।
अधिकृतविज्ञप्तिः एवं वदति वार्षिकं ३०० लीपयन्त्राणां अस्य सेवााय निर्मितं एतत् एसएईएसआई केन्द्रं २०३५ तमवर्षपर्यन्तं पूर्णसञ्चालनक्षमत्वं प्राप्तं कृत्वा सहस्राधिकान् उच्चकुशलभारतीयतांत्रिकान् अभियन्तॄंश्च नियोजयिष्यति। अस्मिन् केन्द्रे विश्वस्तरीया यन्त्ररक्षणमरम्मतसेवाः प्रदातुं अति–उन्नताः उपकरणप्रक्रियाश्च भविष्यति।एवं एमआरओ सुविधा विमाननक्षेत्रे आत्मनिर्भरतायाः लक्ष्यार्थं महद् पादप्रस्थापनं भविष्यति। एमआरओ क्षेत्रे स्वदेशीयक्षमतानां विकासः वैदेशिकमुद्राया निर्गमनं न्यूनं करिष्यति, उच्चमूल्यरोजगारान् सृजिष्यति, आपूर्तिशृंखलायाः स्थैर्यं वर्धयिष्यति, भारतं च वैश्विकविमाननकेन्द्ररूपेण प्रतिष्ठापयिष्यति। केन्द्रसर्वकारम् अपि अस्य क्षेत्रस्य तीव्रविकासाय दृढं एमआरओ–इकोसिस्टम इत्यस्य निर्माणे सक्रियतया प्रयासं करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता