Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य संविधान-सदनस्य सेंट्रल्-हॉल्-नाम्नि आयोजिते संविधान-दिवस-समारोहेसु भागं ग्रहीष्यन्ति। समारोहेषु भारतीय-सम्विधानस्य अनुवादितं संस्करणम् मलयालम्, मराठी, नेपाली, पंजाबी, बोडो, कश्मीरी, तेलुगु, ओड़िया, असमिया इत्येताभिः नवभिः भाषाभिः सह प्रकाशितं भविष्यति। समारोहः पूर्वाह्णे प्रायः एकादशवादने आरभिष्यते। अस्मिन् वर्षे संविधानस्य अंगीकरणस्य षट्षष्टितमः (76) वार्षिकोत्सवः अस्ति।
आधिकारिक-विज्ञप्त्या अनुसारम्, समारोहेषु राष्ट्रपतिः, उपराष्ट्रपतिः, लोकसभा-अध्यक्षः, उभय-सदनयोः सांसदाः, अन्ये विशिष्ट-जनाश्च उपस्थिता भविष्यन्ति। कार्यक्रमे राष्ट्रपतिनेतृत्वेन संविधानस्य प्रस्तावनायाः पाठः क्रियिष्यते।
अस्मिन्नवसरे मलयालम्, मराठी, नेपाली, पंजाबी, बोडो, कश्मीरी, तेलुगु, ओड़िया, असमिया इत्येताभिः भाषाभिः सह भारतस्य संविधानस्य अनुवादितं संस्करणम् प्रकाशितं भविष्यति। कार्यक्रमे “भारतस्य संविधानम्— कला तथा कैलिग्राफी” इति नाम्ना स्मारक-पुस्तिकायाः अपि विमोचनं करिष्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता