बाङ्ग्लादेशे अन्वेषणे शेखहसीना-नामधेयानि बैंक-लॉकराणि मध्ये, 9.704 किलोग्रामपरिमितं स्वर्णाभरणं प्राप्तम्
ढाका, 26 नवम्बरमासः (हि.स.)। बाङ्ग्लादेशे अन्तरराष्ट्रिय-अपराध-न्यायाधिकरण-1द्वारा शेख् हसीनायै मृत्युदण्डादेशो घोषिते सति, अन्तरिम-सर्वकारा तस्याः चल-अचल-सम्पत्तेः जप्ति-प्रक्रियां आरब्धवती। राष्ट्रिय-राजस्व-बोर्डस्य केन्द्रीय-गोपनीयता-कोष्ठकस्य अ
25bf48dbd065bdd4ff9600f1ebcc059d_1431241855.jpg


ढाका, 26 नवम्बरमासः (हि.स.)। बाङ्ग्लादेशे अन्तरराष्ट्रिय-अपराध-न्यायाधिकरण-1द्वारा शेख् हसीनायै मृत्युदण्डादेशो घोषिते सति, अन्तरिम-सर्वकारा तस्याः चल-अचल-सम्पत्तेः जप्ति-प्रक्रियां आरब्धवती। राष्ट्रिय-राजस्व-बोर्डस्य केन्द्रीय-गोपनीयता-कोष्ठकस्य अधिकारिणः मोतीझील-स्थिते अग्रणी-बैङ्कस्य प्रमुख-शाखायां शेख् हसीनायाः नाम्ना पञ्जीकृतयोः द्वयोः संदूकयोः, 832.51 भोरी-परिमितं (9.704 किलोग्राम) स्वर्णाभरणं प्राप्तम्।

‘दि डेली स्टार’ इति पत्रस्य वृत्तानुसारं, केन्द्रीय-गोपनीयता-कोष्ठकस्य अधिकारीभिः सोमवासरे एषा कार्यवाही कृता। विवरणेषु उक्तं यत्, नियमानुसारं लॉकर-सङ्ख्ये 751 तथा 753 उद्घाटिते। एतेभ्यः संदूकेभ्यः स्वर्णाभरणानां अतिरिक्तं देश-विदेशाभ्यां प्राप्तानि पुरस्कार-दत्तकानि उपहाराः च अपि प्राप्ताः। तस्मिन्नेव दिवसे शेख् हसीनायाः नाम्ना पञ्जीकृतः अपरः एकः लॉकरः ‘पुबाली बैंक’-स्थितः उद्घाटितः। अधिकारिभिः उक्तं यत्, तत्र किञ्चिदपि धनं न प्राप्तम्। उल्लेखनीयं यत्, बाङ्ग्लादेशे ‘भोरी’ इति स्वर्णमापनस्य पारम्परिक-एकका। एका भोरी प्रायः 11.664 ग्राम-पर्यन्ता मन्यते। एषा एकका भारत-नेपालादेशेषु दक्षिण-एशियायाः अन्यदेशेष्वपि उपयुज्यते। आभरण-निर्माणे तथा तेषां मूल्य-निर्धारणे अस्याः एककायाः व्यापकः उपयोगः क्रियते।

हिन्दुस्थान समाचार / अंशु गुप्ता