सारणे मुख्यमंत्री महिला रोजगार योजनया 17608 महिलाः लाभान्विताः
सारणम्, 28 नवंबर (हि.स.)। मुख्यमन्त्रिणः महिला रोजगार योजनायाः अंतर्गतम् जनपदस्य 17608 महिलाभ्यः प्रथमा हप्त्याः राशि निर्गताऽस्ति। एषा राशि तासां बैंक खातेषु प्रत्यक्षं हस्तांतरिता, या ताः स्वरोजगारस्य प्रारम्भाय आद्यपूंजीरूपेण सहायिष्यति। सार
सारण में मुख्यमंत्री महिला रोजगार योजना से 17608 महिला लाभान्वित


सारण में मुख्यमंत्री महिला रोजगार योजना से 17608 महिला लाभान्वित


सारण में मुख्यमंत्री महिला रोजगार योजना से 17608 महिला लाभान्वित


सारण में मुख्यमंत्री महिला रोजगार योजना से 17608 महिला लाभान्वित


सारणम्, 28 नवंबर (हि.स.)।

मुख्यमन्त्रिणः महिला रोजगार योजनायाः अंतर्गतम् जनपदस्य 17608 महिलाभ्यः प्रथमा हप्त्याः राशि निर्गताऽस्ति। एषा राशि तासां बैंक खातेषु प्रत्यक्षं हस्तांतरिता, या ताः स्वरोजगारस्य प्रारम्भाय आद्यपूंजीरूपेण सहायिष्यति।

सारणजनपदे अद्यावधि 511229 महिलाः अस्याः महत्त्वपूर्णायाः योजनायाः लाभार्थिन्यः अभवन्, यत् जनपदस्य महिला सशक्तीकरणस्य आर्थिकस्वावलम्बनस्य च दिशि एकं साधनम् अस्ति।

राज्यस्तरीयकार्यक्रमस्य प्रत्यक्षप्रसारणं वेबकास्टिंगेन सह जिलामुख्यालये सर्वेषु प्रखण्डेषु च कृतम्। अस्य श्रीजालप्रसारणस्य माध्यमेन सहस्रशः महिलाः कार्यक्रमेन संलग्नाः, ताः च मुख्यमन्त्रिणः संदेशं योजनायाः च महत्त्वं श्रुतवन्त्यः। एषा भागीदारी दर्शयति यत् जनपदस्य महिलाः अस्य योजनायाः विषये कियत् उत्साहिन्यः जागरूकाः च सन्ति।

अस्मिन्नवसरे छपरास्थिते समाहरणालयसभागारे जनपदस्तरीयः कार्यक्रमः आयोजितः। तस्मिन् छपराविधायिका छोटी कुमारी, जिलाधिकारी अमन समीर, उपविकासआयुक्तः यतेन्द्रकुमारपाल इत्यादयः वरिष्ठाधिकारी उपस्थिताः। सभागारे शतशः जीविका दीद्योऽपि उपस्थिताः आसन्, याः स्वसहायता समूहैः महिला सशक्तीकरणस्य उदाहरणम् अभवन्।

जिलाधिकारी अमनसमीर अवदत्—मुख्यमन्त्री महिला रोजगार योजना महिलाः आर्थिकदृष्ट्या स्वावलम्बिनः कर्तुं क्रान्तिकारीपदम् अस्ति। सारणजनपदे पञ्चलक्षाधिकमहिलानां लाभग्रहणं दर्शयति यत् अस्माकं महिलाः अधुना रोजगारसृजनस्य मार्गे अग्रे सरन्ति। प्रथमराशिं प्राप्ताः सर्वाः 17608 महिलाः तेषां नूतनव्यवसायेषु शुभाशंसाः।

उपविकासआयुक्तेन यतेन्द्रकुमारपालेन अस्य योजनायाः कार्यान्वयनम् प्रति संतोषः व्यक्तः, जीविकादीदीनां परिश्रमः अपि प्रशंसितः। तेन उक्तं यत् एषा राशि महिलाभ्यः लघुव्यवसायान् आरब्धुं, विद्यमानव्यवसायान् विस्तर्तुं, परिवारस्य आयं वर्धयितुं च उपकरोति। योजना महिलाभ्यः आदौ दशसहस्ररूप्यकाणि अनुदानरूपेण ददाति, तस्य प्रदर्शनस्य आधारे अनन्तरं अतिरिक्तः आर्थिकसहायोऽपि प्रदातुं शक्यते।

सारणजनपदस्य महिलासु अस्य योजनायाः विषये स्पष्टः उत्साहः दृश्यते।

---------------

हिन्दुस्थान समाचार