Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 3 नवंबरमासः (हि.स.)।राष्ट्रपतेः द्रौपदी मुर्मोः इत्यस्याः नैनीतालजनपदस्य अद्य आरभ्यमाणं भ्रमणकार्यक्रमं दृष्ट्वा जिलाप्रशासनम् जनहितार्थं विद्यालयानां अवकाशसम्बन्धीनि आवश्यकादेशान् निर्गतवान्। जिलाधिकारी ललितमोहनरयाल इत्यस्य हस्ताक्षरैः निर्गते आदेशे अनुसारं नैनीतालनगरक्षेत्रे तथा भवालनगरपालिकाक्षेत्रे अन्तर्गतानि सर्वाणि शासकीयाशासकीयअर्धशासकीयविद्यालयानि सहितानि आङ्गनवाडीकेन्द्राणि च नवम्बरमासस्य चतुर्थदिने पूर्णावकाशं प्राप्स्यन्ति। हल्द्वानीनगरनिगमक्षेत्रे तु काठगोदामतः आर्मीहेलिपैडपर्यन्तमार्गे स्थितेषु विद्यालयेषु आङ्गनवाडीकेन्द्रेषु च शिक्षणकार्यं केवलं अपराह्णे एकवादनपर्यन्तं एव भविष्यति। ततः परं सर्वाणि शिक्षणसंस्थानानि निमीलितानि भविष्यन्ति यतः यातायातव्यवस्था सुचारुरूपेण स्थाप्येत। प्रशासनम् अवदत् यत् एषः निर्णयः राष्ट्रपतिभ्रमणकाले सुरक्षा तथा यातायातनियन्त्रणदृष्ट्या एव स्वीकृतः इति।
हिन्दुस्थान समाचार