Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 3 नवंबरमासः (हि.स.)।उत्तराखण्डराज्यस्थापनायाः रजतजयन्तीसमये सोमवासरे राष्ट्रगानपूर्वकं विधानसभायाः विशेषसत्रं शुभारभम् अभवत्। राष्ट्रपतिनः अभिभाषणात् पूर्वं राज्यपालः गुरमीतसिंहः, मुख्यमन्त्री पुष्करसिंहधामी, विधानसभा-अध्यक्षा ऋतुभूषणखण्डूडी, विपक्षनेता यशपालार्यश्च तस्य स्वागतं कृतवन्तः।
स्वागतभाषणे राज्यपालेन गुरमीतसिंहेन उक्तं यत् राज्येन स्वस्य पञ्चविंशतिवर्षीयात्रायां अनेकाः सिद्धयः प्राप्ताः। राज्येन स्वास्थ्य, शिक्षण, पर्यटन, विज्ञान, नारीसशक्तीकरणं च सहितान्येषां क्षेत्रेषु उच्चस्थानानि प्राप्यन्ते।
अस्मिन्नवसरे मुख्यमन्त्रिणा पुष्करसिंहेन धामिना उक्तं यत् राज्यस्थापनायाः पञ्चविंशतिवर्षपूरणस्य अवसरं प्रति उत्तराखण्डविधानसभायाः अस्मिन् विशेषसत्रे राज्यस्य विकासयात्रा चर्चायां भविष्यस्य मार्गचित्रं च निरूप्यते।
सः अपि अवदत् यत् उत्तराखण्डराज्येन पञ्चविंशतिवर्षेषु विविधानि क्षेत्राणि बहूनि महत्वपूर्णानि साधनानि प्राप्तानि। एषः कालखण्डः आर्थिकवृद्धेः सुशासनस्य सामाजिकन्यायस्य नारीकल्याणस्य च दृष्त्या अत्यन्तं प्रमुखः आसीत्।
हिन्दुस्थान समाचार