असमराज्ये ‘अन्नसेवा’ योजनया जनसेवायां सर्वकारस्य प्रतिबद्धता — मुख्यमन्त्री हेमन्तसरमा।
गुवाहाटीनगरम् ०४ नवम्बरमासः (हि.स.) असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा अवदत् —“अन्नसेवा” नाम्ना योजनया राज्यसर्वकारः समाजस्य सर्ववर्गेषां सेवायां दृढप्रतिज्ञा अस्ति” इति।मुख्यमन्त्रिणा उक्तं यत् प्रतिमासं प्रथमदिनात् दशमदिनाङ्कंपर्यन्तम्
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटीनगरम् ०४ नवम्बरमासः (हि.स.) असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा अवदत् —“अन्नसेवा” नाम्ना योजनया राज्यसर्वकारः समाजस्य सर्ववर्गेषां सेवायां दृढप्रतिज्ञा अस्ति” इति।मुख्यमन्त्रिणा उक्तं यत् प्रतिमासं प्रथमदिनात् दशमदिनाङ्कंपर्यन्तम् राज्ये सर्वेषां अन्नवितरणपत्र-धारकपरिवाराणां कृते निःशुल्कतण्डुलवितरणम् क्रियते। ये लाभार्थिनः — दिव्याङ्गजनाः, रोगिणः, वृद्धजनाः वा — उचितमूल्यविपणं प्रति गन्तुं न शक्नुवन्ति, तेषां गृहेभ्य एव अन्नपदार्थानां वितरणव्यवस्था अपि सर्वकारेण कृताः। डॉ॰ सरमा इत्यनेन उक्तं —एषा योजना सर्व समभावजनकल्याणचिन्तनस्य प्रतीकः अस्ति, येन कश्चनापि दरिद्रः जनः अनादृतः न भवेत् इति लक्ष्यं साध्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani